Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० पदार्थप्रधानः, 'अव्ययं विभक्तिसमीप' इति (पा. 2-1-6) सिद्धे विभाषाधिकारे पुनर्वचनं येषां तु समयाशब्दो मध्यवचनः तेषामप्राने 18 तद्धितनाहारि.वृत्ती प्रामस्य मध्येनाशनिर्गता 'अनुर्यत्समया' इति (पा.२-१-१५) समासः, अनुग्राम, एवमणुणइयं इत्यादि, यथा एकः पुरुषः तथा बहवः पुरुषा अत्र टिग्नि प्रमाण 'सरूपाणामेकशेष एकविभक्ता' (पा. 1-3-64) विति समानरूपाणां एकविभाक्तियुक्तानां एकः शेषो भवति-सति समास एकः शिष्यते, अन्ये नाम // 74 // लुप्यन्ते, शेषश्च आत्मार्थे लुपस्य लुप्तयोः लुप्तानां वाऽर्थे वर्तते, बहुवर्थेषु बहुवचनं. पुरुपौ पुरुषाः, एवं कार्षापणाः, तदेतत्सामासिकं / 'से किं तं लातद्धितए?, 2 तद्भितं कर्मशिल्पादीति, तथा चाह-'कम्मे सिप्पसिलोए' इत्यादि (*92-149) कर्मतद्धितनाम दौषिकादि, तत्र दूषाः पण्यमस्य 'तदस्य पण्यं' (पा. 4-4-51) तदिति प्रथमासमर्थने, अस्येति पष्टयर्थे, यथाविहितं प्रत्ययः ठक् दौषिकः, एवं सूत्रं पण्यमस्य सूत्रिक इत्यादि, तथा शिल्पतद्धितनाम वस्त्रं शिल्पमस्य तत्र 'शिल्प' (पा. 4-4-55) मस्मिन्नर्थे यथाविहितं प्रत्ययः ठक् वास्त्रिकः, एवं तंतुवायनं शिल्पमस्य तांत्रिका, इह तुण्णाएत्ति भणितं, न चात्र तद्वितप्रत्ययो दृश्यते कथं तद्धितं?, उच्यते, तद्वितप्रत्ययप्राप्तिमात्रमंगीकृत्योक्तं, प्राप्तिश्च न तद्धितार्थेन विना भवति, अन्तः स्थगितार्थस्तद्धितार्थः, तद्धितः प्रत्ययस्तर्हि केन बाधितः ?, उच्यते, लोकरूढेन वचनेन, यतस्तेनार्थः प्रतीयते, येन चार्थः प्रतीयते स शब्दः, अथवाऽस्मादेव वचनादत्र जातास्तद्धिता इति तद्वितसंज्ञा, श्लाघातद्धितनाम श्रवण इत्यादि, अस्मादेव सूत्रनिबंधात् श्लाघार्थस्तद्भितार्थ इति / संयोगतद्धितमाह-राज्ञः श्वसुर इत्यादावप्यस्मादेव सूत्रनिबंधात् तद्धितार्थतेति, चित्रं च शब्दप्राभृतमप्रत्यक्षं च न इत्यतो न विद्मः, समीपतद्धितनाम गिरेः समीपे नगरं गिरिनगरं, अत्र 'अदूरभवश्चे' (पा. 4-2-70) त्यण न भवति, गिरि // 74 // नगरमित्येव प्रसिद्धत्वात् , विदिशाया: अदूरभवं णगरं वैदिशं, अदूरभवेत्यण भवति, एवं प्रसिद्धत्वात् , संजूहतद्धितनाम तरंगवतीकार इत्यादि संजूहो-ग्रन्थसंदर्भकरणं, शेषं पूर्ववद्भावनीयमिति / ऐश्वर्यतद्धितनाम 'राजे त्यादि, अत्रापि राजादिशब्दनिबंधनमैश्वर्यमवगंतव्यं, शेषं | CASSALSARE For Private and Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128