Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir का समयनिरूपणं // 83 // श्रीअनु०|| | जैनशब्दो शीघ्रवचनाछेक:-प्रयोगज्ञः दक्षः-शीघ्रकारी प्राप्तार्थ:-अधिगतकर्मनिष्ठां गतः, प्राज्ञ इत्यन्ये, कुशल:-आलोचितकारी मेधावी-सकृतथुतहारि.वृत्ती | दृष्टकर्मज्ञः निपुण:-उपायारम्भकः निपुणशिल्पोपगतः-सूक्ष्मशिल्पसमन्वितः, स इत्थभूतः एका महती पटशाटिकां वा पट्टशाटकं वा श्लक्ष्णतया पटशाटिकेति भेदेनाभिधानं, गृहीत्वा 'सयराई' मिति सकृद् झटिति कृत्वेत्यर्थः, हस्तमात्रमपि उत्सारयेत् पाटयेदित्यर्थः / तत्र चोदकः-शिष्यः प्रज्ञापयतीति प्रज्ञापको-गुरुस्तमेवमुक्तवान-किं?, येन कालेन तेन तुन्नवायदारकेण तस्याः पटशाटिकाया सकृद्धस्तमात्रमपसारित-पाटितमसो समय इति?, प्रज्ञापक आह-'नायमर्थः समर्थः' नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात्संख्ययानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत् , पटशाटिका निष्पद्यते, तत्र उवरिल्लत्ति-उपरितने तंतौ अच्छिन्ने-अविदारिते 'हेडिल्ले' त्ति अधस्तनस्तन्तुर्न छिद्यते, अन्यस्मिन्काले आद्योऽन्यस्मिश्चापरस्तस्मादसौ समयो न भवति, एतच्च प्रत्यक्षप्रतीतं, संघातस्त्वनंतानां परमाणूनां विशिष्टकपरिणामयोगस्तेपामनन्तानां संघातानां संयोगः-समुदयस्तेषां समुदयाना याऽन्योऽन्यानुगतिरसौ समितिस्तेपामेकद्रव्यानिवृत्तिसमागमेन पटः निष्पद्यत इति, समयस्य चातोऽपि सूक्ष्मत्वात् , परमाणुव्यतिकान्तिलक्षणकाल एकसमय इति, न, पाटकप्रयत्नस्याचिंत्यसक्तियुक्तत्वाद्, अभागे च तन्तुविसंघातोपपत्तेस्तुल्यप्रयत्नप्रवृत्तानवरतप्रवृत्तगंत्रतुल्यकालेनेष्टदेशप्राप्त्युपलब्धेः प्रयत्नविशेषसिद्धिरर्हद्वचनाच, उक्तंच- आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् / अती न्द्रियाणामर्थानां, सद्भावप्रतिपत्तये // 1 // आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः / वीतरागोऽनृतं वाक्यं, न याद्धेत्वसंभवात् / / 2 / / उपपत्तिMभैवेद्यक्तिर्या सद्भावप्रसेधिका। सा त्वन्वयव्यतिरेकलक्षणा सूरिभिः स्मृते // 3 // " ति, निदर्शनं चेहोभयमपि, अलं विस्तरेण, गमनिकामात्रमेतत् , शेष सूत्रसिद्धं यावत् 'हट्ठस्से' त्यादि(*१०४-१७८) हृष्टस्य-तुष्टस्य अनवकल्लस्य-जरसा अपीडितस्य निरुपक्लिष्टस्य-व्याधिना पूर्व सांप्रतं वाऽनभिभूतस्य जन्तोः मनुष्यादेः एक उकळूवासनिच्छ्वास एकः प्राण इत्युच्यते-'सत्त पाणि' सिलोगो (*१०५-१७९)निगसिद्ध एव, | 83 / / 4परत For Private and Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128