Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www kobarth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु: हार // 10 // त्वरं यावत्कथितं च, तत्र स्वल्पकालमित्वरं, तदाद्यचरमाहत्तीर्थयोरेवानारोपितव्रतस्य शैक्षकस्य, यावत्कथाऽऽत्मनः तावत्कालं यावत्कथं, जाब-15 चारित्र ज्जीवमित्यर्थः, यावत्कथमेव यावत्कथितं तन्मध्यमाहत्तीर्थेषु विदेहवासिनां चेति / तथा छेदोपस्थापनम् , इह यत्र पूर्वपर्यायस्य छेदो महाव्रतेषु प्रमाणं चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते, तच्च सातिचारं निरतिचारं च, तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यद्वार तीर्थान्तरप्रतिपत्तौ, यथा पार्श्वस्वामितीर्थाद्वर्द्धमानतीर्थ संक्रामतः, मूलघातिनो यत्पुनव्रतारोपणं तत्सातिचारम् , उभयं चैतदवस्थितकल्पे, नेतरस्मिन् / तथा परिहारः-तपोविशेषस्तेन विशुद्धं परिहारविशुद्धं, परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्धं, परिहारविशुद्धिकं चेति | स्वार्थप्रत्ययोपादानात् , तदपि द्विधा-निर्विशमानकं निविष्टः कायो यस्ते निर्विष्टकायाः स्वार्थिकप्रत्ययोपादानानिर्विष्टकायिकाः, तस्य वोढार: परिहारिकाश्चत्वारः चत्वारोऽनुपरिहारिकाः कल्पस्थितश्चेति नवको गणः, तत्र परिहारिकाणां निर्विशमानक, अनुपरिहारिकाणां भजनया, 121 निर्विष्टकायिकानां कल्पस्थितस्य च, परिहारकाणां परिहारो जघन्यादि चतुर्थादि त्रिविधं तपः प्रीष्मशिशिरवर्षासु यथासंख्यं, जघन्यं चतुर्थ || षष्ठमष्टमं च मध्यमं षष्ठमष्टमं दशमं च उत्कृष्टमष्टमं दशमं द्वादशं च, शेषाः पंचापि नियतभक्ताः प्रायेण, न तेषामुपवस्तव्यमिति नियमः, भक्तं च सर्वेषामाचाम्लमेव, नान्यत् , एवं परिहारिकाणां पण्मासं तपः तत्प्रतिचरणं चानुपरिहारिकाणां, ततः पुनरितरेषां पण्मासं तपः, प्रति चरणं चेतरेषां, निर्विष्टकायानामित्यर्थः, कल्पस्थितस्यापि षण्मास, इत्येवं मासैरष्टादशभिरेष कल्पः परिसमापितो भवति, कल्पपरिसमाप्तौ च है त्रयी मतिरेषां-भूयस्तमेव कल्पं प्रतिपबेरन् जिनकल्पं वा गणं वा प्रति गच्छेयुः, स्थितकल्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति / तथा सूक्ष्मसं परायं, संपर्येति संसारमेभिरित्ति संपराया:-क्रोधादयः, लोभांशावशेषतया सूक्ष्मः संपरायो यत्रेति सूक्ष्मसंपरायः, इदमपि संक्लिश्यमानक कककककककल 104 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128