Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणं 2-5 श्रीअनु:18 प्रविष्टं विछदित' गृहस्थपारिष्ठापनिकया प्रचुरमापर्याप्तः भक्तपानं यस्य स तथाविधं तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्त्तत्त इति, अनागतकालग्रहणं औपम्य हारि.वृत्तौ अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति सुवृष्टिरिति, विशिष्टानाममीषां व्यभिचाराभावात् , व्यत्ययः सूत्र, इत्युक्तमनुमानं / 'से किं तं उवम्मे' इत्यादि, औपम्य द्विविध प्रज्ञप्तं, तद्यथा-साधोपनीतं च वैधोपनीतं च, तत्र साधोपनीतं त्रिविध-किंचित्साधयं प्राय:साधर्म्य सर्वसाधर्म्य, // 102 // किंचित्साधर्म्य मन्दरसर्पपादीनां, तत्र मंदरसर्पपयोर्मूर्तत्वं समुद्रगोष्पदयोः सोदकत्वं आदित्यखद्योतकयो: आकाशगमनोद्योतनत्वं चन्द्रकुंदयोः शुक्लत्वं, प्रायःसाधर्म्य तु गोगवययोरिति, ककुदखुरविषाणादेः समानत्वान्नवरं सकम्बलो गौवृत्तकंठस्तु गवय इति, सर्वसाधर्म्य तु नास्ति, तदभेदप्रसंगात् , प्रागुपन्यासानर्थक्यमाशंक्याह-तथापि तस्य तेनैवौपम्यं क्रियते, तद्यथाऽईता अर्हता सदृशं तीर्थप्रवर्तनादि कृतमित्यादि, स एवम तेनोपमीयते, तथा व्यवहारसिद्धः, तदेतत्साधोपनीतं, वैधोपनीतमपि त्रिविधं-किंचिद् वैधोपनीतं० किंचिद्वैधयं शाबलेयबाहुलेययोभिन्ननि| मित्तत्वात् जन्मादित एव, शेष तुल्यमेव, प्रायोवैधयं वायसपायसयो: जीवाजीवादिधर्मवैधात्सत्वाद्यभिधानवर्णद्वयसाधर्म्य चास्त्येव, सर्ववैधर्म्य एतत्सकलातीतादिविसदृशं तत्प्रवृत्त्यभावादतस्तदपेक्षया वैधय॑भिति, तदेतद्वैधयोपनीतमित्युक्तं उपमानं / 'से किं तं आगम' त्यादि, नंद्यध्ययनविवरणादवसेयं याव से तं लोउत्तरिये आगमे' अह्वा आगमे तिविहे पन्नत्ते, तंजहा-सुत्तागमे' इत्यादि, तत्र च सूत्रमेवागमःसूत्रागमः तदभिधेयश्वार्थोऽर्थागमः तदुभयरूपः तदुभयागमः, अथवा आगमत्रिविधः प्रज्ञप्तः, तद्यथा-आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवागम | आत्मागम यथाऽहतो भवत्यात्मागम: स्वयमेवोपलब्धेः, गणधराणां सूत्रस्यात्मागम: अर्थस्यानन्तरागमः, अनन्तरमेव भगवतः सकाशाद-11 P // 12 // र्थपदानि श्रुत्वा स्वयमेव सूत्रग्रन्थनादिति, उक्त-'अत्थं भासइ अरहा सुत्तं गुंथति गणहरा विउण' मित्यादि, गणधरशिष्याणां जंबूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः गणधरादेव श्रुतेः,अर्थस्य परंपरागम: गणधरेणैव व्यवधानात् , तत फवं प्रभवाद्यपेक्षया सूत्रस्याप्यर्थस्यापि नात्माऽऽगमो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128