Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagarsur Gyanmandir www.kobatirth.org HI श्रीअनुमानेत्युपमानं, गुरुपारम्पर्येणागच्छतीत्यागमः / अथैतद् व्याचष्टे-अथ किं तत्प्रत्यक्ष?, प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-इंद्रियप्रत्यक्षं च नाइंद्रियप्रत्यक्षंजीववान हार.वृत्ताच, तन्द्रिय-श्रोत्रादि, तन्निमित्तं यदलनिक शब्दादिक्षानं तदिद्रियप्रत्यक्षं व्यावहारिक नोइंद्रियप्रत्यक्ष तु यदात्मन एवालिङ्गिकमवध्यादीति5 गुण 1 समासा:, व्यासार्थस्तु नंद्यध्ययनविशेषविवरणादेवायसेयः, अक्षराणि तु सुगमान्येव यावत्प्रत्यक्षाधिकार इति / उक्तं प्रत्यक्षं, अधुनाऽनुमान- प्रत्यक्षमनु' मुच्यते-तथा चाह-से किं तं अणुमाणे?' अनुमानं त्रिविधं प्रज्ञप्तं, तद्यथा-पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति / से किंतं पुव्ववमित्यादि, विशे-131 विमानं च षतः पूर्वोपलब्धं लिङ्ग पूर्वमित्युच्यते, तदस्यास्तीति पूर्ववत् , तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः, तथा चाह-'माता पुत्त' इत्यादि (*114. D212) माता पुत्र तथा नष्टं बालयावस्थायां युवानं पुनरागतं कालान्तरण काचित् स्मृतिमती प्रत्यभिजानीयात् मे पुत्रोऽयमित्यनुमिनुयात् पूर्व-11 लिङ्गेनोक्तस्वरूपेण केनचित् , तद्यथा-'क्षतेन व त्यादि, मत्पुत्रोऽयं तदसाधारणलिंगक्षतोपलव्ध्यन्यथानुपपत्तेः, साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वे| तराभावादयमहेतुरिति चेत् , न, हेतोः परमार्थेनै कलक्षणत्वात् तत्प्रभावत एवमत्रोपलब्धेः, उक्तं च न्यायवादिना पुरुषचंद्रेण-"अन्यथानुपपन्न त्वमात्रं हेतोः स्वलक्षणम् / सत्वासवे हि तद्धर्मो, दृष्टान्तद्वयलक्षणः // 1 // तदभावेतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना, तथा ला'धूमादेर्यथापि स्यातां, सत्त्वासत्त्वे च लक्षणे / अन्यथानुपपन्नत्वप्राधान्याजक्षणैकता // 2 // " किंच-"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम्? ||G इत्यत्र बहु वक्तव्यं, तच्च प्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति / प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तं, न, पिण्डपसारिच्छित्तावपि पुत्रो न पुत्र इति संदेहात पिंडमात्रस्य च प्रत्यक्षविषयत्वात मत्पुत्रोऽयमिति चाप्रतीते: तहिङ्गत्वादिति कृतं प्रसंगन, प्रकृतं प्रस्तुमः,31 तद्भवं क्षतमागन्तुको व्रणः लाञ्छनं मसतिलकाः प्रतीतास्तदेतत्पूर्ववदिति / 'से किंत सेसव' मित्यादि, उपयुक्ताद्योऽन्यः स सेष इति कार्यादित॥१०॥ गृह्यते, तदस्यास्तीति शेषवद्, भावना पूर्ववदिति, पंचविधं प्रज्ञप्तं, तद्यथा 'कार्येणे' त्यदि, तत्र कार्येण कारणानुमानं यथा हयः-अश्वः हिसितेन || REARS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128