Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु. पुढवादिपमाणा आणिज्जति ते पमाणगुलविक्खंभेणं आणेतब्वा, ण सूइअंगुलेणं, शेष सुगम, यावत् तदेतत्क्षेत्रप्रमाणमिति, नवरं काण्डानि31 समयहारि.वृत्तौ हा रत्नकाण्डादीनि भवनप्रस्तटान्तरे टंका:-छिन्नटंकानि रत्नकूटादयः कूटाः शैला: मुंडपर्वताः शिखरवन्तः शिखरिणः प्राग्भाग-ईपदवनता इति / निरूपणं // 82 // 'से किं तं कालप्पमाणं' इति (134-175) कालप्रमाणं द्विविधं प्रज्ञप्त, तद्यथा-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र प्रदेशनिष्पन्नं एकसमयस्थित्यादि यावदसंख्येयसमयस्थितिः, समयानां कालप्रदेशत्वादसंख्येयसमयस्थितेश्चोर्ध्वमसंभवात् , विभागनिष्पन्नं तु समयादि, तथा चाह-'समयावलिय गाहा (*103-175) कालविभागाः खल्विमाः, समयादित्वाच्चैतेषामादौ समयनिरुपणा क्रियते, तथा चाह-'से किं तं समय' (137-175) प्राकृतशल्याऽभिधेयवल्लिंगवचनानि भवन्तीति न्यायादथ कोऽयं समय इति पृष्टः सन्नाह-समयस्य प्ररूपणां करिष्याम इति, तद्यथा नाम तुन्नदारक: स्यात् सूचिक इत्यर्थः तरुणः प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति किं विशेषणेन ?, न, आसन्नमृत्याः प्रवर्द्धमानवयस्त्वाभावस्तस्य चासन्नमृत्युत्वादेव विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारंभ इति, अन्ये तु वर्णादिगुणोपचितो भिन्नवयस्तरुण इति व्याचक्षते, बलं-सामर्थ्य तदस्यास्तीति बलवान, युग:-सुषमदुष्पमादिकाल: सोऽस्य भावेन न कालदोषतयाऽस्यास्तीति युगवान् , कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरिति, जुवाणं युवा वयःप्राप्तः, दारकाभिधानेऽपि तस्यानेकधा भेदाद्विशिष्टवयोऽवस्थापरिग्रहार्थमिदमदुष्टं, 'अल्पातंक: आतङ्को-रोगः अत्राल्पशब्दोऽभाववचनः, स्थिराग्रहस्तः लेखकवत् | प्रकृतपटपाटनोपयोगित्वाच्च विशेषणाभिधानमस्योपपद्यत एव दृढः पाणिपादपार्श्वपृष्टान्तरोरुपरिणतः, सर्वांगावयवरुत्तमसंहनन इत्यर्थः, तलय 8 // 82 // मलयुगलपरिघनिभबाहुः परिघ:-अर्गला तन्निभबाहुस्तत्व य तदाकारबाहुरिति भावार्थः, आगंतुकोपकरणजं सामर्थ्यमाह-चर्मेटकद्रुधनमुष्टि| समाहतनिचितकाय इति, ऊरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इत्यर्थः, व्यायामवत्त्वं दर्शयति-लंघनप्लवनशीघ्रव्यायामसमर्थः, CAMER For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128