Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 291
________________ २३० अनेकान्तव्यवस्थाप्रकरणम् । त्रयसम्भव इति विवेकः, इत्थं च यत् पशुपालेनोक्तम्- "सर्वत्रानेकान्ताभ्युपगमे 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च' इति । वचनमेवानुपपन्नम् , स्व-पररूपयोरप्यनिर्धारणाद्” इति, तदपास्तं द्रष्टव्यम् , पूर्वनयविशेषेण स्व-पररूपयोः सङ्कोच-विकासावुपजीव्य तदनुसारेणैव सप्तभङ्गीप्रवृत्तेः अवच्छिन्नसप्रतिपक्षधर्मद्वयाभिधानस्थले एकान्ततोऽवच्छेदकनिर्णयस्य तवाप्यभावात्, 'इदानीं गोष्ठे गौर्न तु वाजिशालायाम्' इत्यादौ शुद्धगोष्ठादेरप्यवच्छेदकत्वस्य निर्णेतुमशक्यत्वात् , 'इह कोणे गोष्ठे गौर्नापरकोणे' इति प्रतिसन्धाने एतत्कोणावच्छिन्नगोष्ठस्यैतकोणस्य वा तथात्वसम्भवादवच्छेदकावच्छेदकस्याऽवच्छेदकसङ्कोचस्य दिष्टाभ्यां ताभ्यामवक्तव्य इत्युपन्यासः, तथा च यो निजपर्यायस्तेन सत्त्वमित्यतः 'स्यादस्त्येव' इति प्रथमो भङ्गः, यश्च परपर्यायः तेनासत्त्वमित्यतः 'स्यान्नास्त्येव' इति द्वितीयो भङ्ग इत्येवमर्थादवगतौ भङ्गत्रयावगतिः सुलभवेत्यभिसन्धिः । इत्थं च वसतिदृष्टान्तनीत्या स्वपरपर्यायसङ्कोचाश्रयणेन षोडशप्रकारेण भङ्गत्रयसमर्थनतः सप्तभङ्गीप्रवृत्तिव्यवस्थितौ च । यत् पशुपालेनोक्तं तदपास्तं द्रष्टव्यमित्यन्वयः । पशुपालोक्तिमेवोल्लिखति-सर्वत्रानेकान्ताभ्युपगम इति । स्व-पररूपयोरप्यनिर्धारणा-दितीति-यत् स्वरूपं तदपि न सर्वथेति भवति तदपि पररूपमनेकान्तदृष्ट्या, एवं यदपि पररूपं तदपि न सर्वथेति स्यात् तदप्यनेकान्तदृष्ट्या स्वरूपमित्यत एतत् स्वरूपमेवैतत् पररूपमेवेत्येवं निर्धारणाऽसम्भवादित्यर्थः । तत्प्रतिक्षेपहेतुमुपदर्शयति पूर्वमिति । तदनुसारेणैव स्व-पररूपसङ्कोच-विकासानुसारेणैव । परमतेऽप्यवच्छेदकसङ्कोचविकासाश्रयणं सावच्छिन्नसप्रतिपक्षधर्मद्वयैकत्रावस्थानोपपत्तये आवश्यकमित्याहअवच्छिन्नेति । तवाऽपि पशुपालाभिधानपरस्यापि । एकान्ततोऽवच्छेदकनिर्णयाभावे हेतुमुद्भावयति-इदानीमिति । शुद्धगोष्ठादेरवच्छेदकत्वं कुतो निर्णतुमशक्यमित्यपेक्षायामाह-इहेति । तथात्वसम्भवात् गोवृत्तितावच्छेदकत्वसम्भवात् । यश्च प्रकारान्तरेणावच्छेदकनिर्णयो भवता कर्तुं शक्यः सोऽस्माभिरपि कर्तुं शक्य • इत्याह-अवच्छेदकावच्छेदकस्येति-अस्य 'अपरिस्फूर्ती' इत्यनेनान्वयः, एत

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442