Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 418
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३५७ अभ्यस्थाः षट् शमाद्याः सहकृतिविधयाऽत्रोपयुक्ता निरुक्ता,. . ___ आत्मज्ञानप्रकाराः श्रवणप्रभृतयो भावितास्तत्प्रसङ्गात् । षलिङ्गान्यद्वयात्मन्यवधृतिफलकानीष्टतात्पर्यरूपे, वेदान्तानां समाधिर्द्विविध इह तथा तस्य चाङ्गान्यथाष्टौ ॥ २९ ॥ विघ्नाश्चैवं लयाद्याः स्फुटमिह गदिता ईदृशाद् ब्रह्मबोधाद्, ___ बाधेऽज्ञानस्य पूर्व तदनु च निखिले बाधिते कार्यवर्गे । बाधायां सञ्चितस्याप्यदृढविषयके संशयादौ व्युदस्ते, प्रारब्धादृष्टभोक्ता व्यवहृतिनियतो वर्तते बुद्धतत्त्वः ॥ ३०॥ प्रारब्धादृष्टजन्याखिलफलभवनात् क्षीणपुण्यादिकर्मा, ब्रह्माद्वैतस्वरूपो भवति ननु तदा केवलो मुक्त आत्मा । इत्थं वेदान्तिमान्यं श्रुतिशतप्रथितं दर्शनं सङ्ग्रहोत्थं, युक्तिवातासहत्वादनुभवतु कृती सर्वथैवेन्द्रजालम् ॥ ३१ ॥ ब्रह्माद्वैते कथं ते नियतविषयिणी बन्ध-मोक्षव्यवस्था, चैतन्यं बुद्धिगं ते मुखमिव मुकुरे सम्मतो जीव एषः । बन्धो बुद्धेर्विनाशो यदि तव समये मुक्तता बिम्बवादे, . ____ नो युक्कैवं व्यवस्था नहि भवति तदा मुक्तता ते कदाऽपि ॥ ३२ ॥ बुद्धिश्चैका विनष्टा भवतु ननु परा विद्यते सा तु तत्र, चैतन्यं तत् समस्तीत्यत इह भविता शुद्धता नैकनाशे। . तद्बद्ध शतस्तद्गतविगमभवा तस्य जीवस्य मुक्तिः, स्यादेषाऽपि व्यवस्था नहि परप्रथिता सांशता रत्तिदोषात् ॥ ३३ ॥ सैषा नाभासवादे परसमयमता नाप्यवच्छेदवादे, युक्ता तद्दोषभावान्न च परगदिता दृष्टिसृष्टिस्तु युक्ता। ... तस्यामज्ञानमेकं तदुपहितमथ ब्रह्मजीवोऽपि चैक स्तन्मुक्तौ सर्वमुक्तिर्व्यवहृतिविलयान्नैव मान्या बुधानाम् ॥ ३४ ॥ मुक्तत्वं ब्रह्मगं ते सहजमिति न वै वक्तुमेवं तु शक्यं, स्याद्वादार्थप्रवेशादगतिरपरथा नो मुमुक्षुपदेशः ।। .. वैफल्यात् कल्पनातः फलमपि घटते नाप्यविद्यानिवृत्ति- ' ! बोधो निर्विकल्पः खत इह पुरुषार्थत्वमेतस्य नो यत् ॥ ३५ ॥

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442