Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३६२
अनेकान्तव्यवस्थाप्रकरणम् । नित्ये नैव क्रमेणार्थकरणमपि ते योगपद्येन नो तद्, ___ नो वा युज्येत वादस्तव तु परिणतेर्यद् विकल्पैः स भिन्नः । विस्तीर्णा चात्र चर्चा परिणतिविषया तेन साङ्ख्याभ्युपेतो,
नो युक्तो हेतुवादः परिणतिबलतः किन्त्वनेकान्ततः सः ॥ ६४ ॥ किञ्चासत्कार्यवादी सदकरणमुखान् साङ्ख्यसत्कार्यहत्य,
हेतून वक्तुं समर्थों भवसि च प्रतिबन्द्या गृहीतस्तदा त्वम् । एवं ते दर्शने नो कथमपि घटते साधनस्य प्रयोगे,
साफल्यं संशयादेर्भवति विघटनं नैव नित्यस्य यस्मात् ॥ ६५॥ नाभिव्यक्तिस्तु युक्ता भवति प्रतिहता यत् प्रभूतैर्विकल्पैः,
शङ्काऽसत्कार्यहत्यै ननु पररचिता युक्तितोऽथ व्युदस्ता । एवं सत्कार्यवादे नहि भवत उभौ बन्ध-मोक्षौ प्रधाना_ स्तित्वे ये हेतवोऽत्र प्रथममभिहतास्त त्वसिध्यादियुक्ताः ॥ ६६ ॥ चर्चा चात्रापि कान्ता परमतहननेऽदर्शि शङ्कोत्तराभ्यां,
यद् यत् साङ्ख्यस्य वाच्यं तदखिलमपि संभाव्य दूरं निरस्तम् । चैतन्यं त्वात्मरूपं प्रकृति-विकृतितो भिन्नमुक्तं प्रमाणं,
चाख्यातं वेदवाक्यं पुरुष उपगतो भोक्तृरूपो न कर्ता ॥ ६ ॥ मानं चात्मप्रसिद्ध्यै गदितमिह तु सङ्घातरूपं परार्थ, ___ दृष्टं शय्या-ऽऽसना-ऽभ्यङ्गप्रभृतिसकलं चक्षुराद्यास्तथैव । आत्माऽसङ्घातरूपः पर इह हि मतो नानवस्था ततोऽत्र,
साङ्ख्यस्येत्थं तु मान्यं यदपि तदपि नो युक्तित: सिद्धिमेति ॥ ६८ ॥ चैतन्यं नित्यमेकं न समुचितमिहाध्यक्षतो भासते यद् , __रूपादिज्ञानभेदो बहुविषयकभोक्तृत्वमेकस्य न स्यात् । योगाञ्चैवं दिदृक्षादित इति कथनं नैव सम्बन्धबाधाद्, — भेदेऽभेदे तदुत्पादत इह भवनं चात्मनः स्यात् प्रसक्तम् ॥ ६९ ॥ भोक्तृत्वं कर्तृधर्मो नहि भवति तथा चेतनेऽकर्तृरूपे,
चैतन्याभावतो नो प्रकृतिरपि भवेत् कर्मकी कथञ्चित् । पङ्ग्वन्धन्यायतश्चेत् प्रकृति-पुरुषयोर्योगतः सृष्टिरिष्टा,
तां प्रत्येवं निमित्तीभवदथ पुरुषः स्याद् विकारी तदानीम् ॥ ७० ॥

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442