Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 425
________________ ३६४ अनेकान्तव्यवस्थाप्रकरणम् । नोऽवकं सूत्रयत्यर्थमणुसमयगं ज्ञानमस्य त्ववक्रं, __ नातीतानागतार्थ मनुत इह कथा वर्तमानार्थिकैव। . स ख्यातो नीतिविद्भिः क्षणिकविषयताशालिशुद्धर्जुसूत्रो, द्रव्यार्था मिश्रितत्वं ननु समयविदा शुद्धता चास्य गीता ॥ ७८ ॥ सामान्यं नोपयुक्तं व्यवहृतिविषये तेन नो सत्यमिष्टं, तद्वन्नो सत्यमेष्यद् गतमपि च तथा तेन वक्रे च ते द्वे । किन्तु स्याद् वर्तमान व्यवहृतिनिपुणं सत्यमेतत् त्ववक्र, स्वीयं ज्ञेयं तदेतत् परमथ सकलं चान्यदीयं विभाव्यम् ॥ ७९ ॥ अस्मिल्लिङ्गादिमेदाकलितमपि वचो नार्थभेदं विधत्ते, __ नानापर्यायवाच्यत्वकलितमपि चाभिन्नमेवार्थतत्त्वम् । निक्षेपैरप्यशेषैरनुसृतमथ चानन्यदेवात्र वस्तु, नो भावैकस्वरूपं वचननय इवोपैति शुद्धर्जुसूत्रः ॥ ८ ॥ अस्मादेवोपजातं सुगतसुतमतं चैकपर्यायमात्र ग्राहीष्टं नो पलालं दहति च दहनो दह्यते नो गिरिश्च । नैवात्रासंयतः प्रव्रजति न च तथा भव्यजीवस्य सिद्धि सैन्यं चेत्थं न दोषो व्यवहृतिहननं तत् क्वचित् सर्वनीतौ ॥ ८१॥ सर्व बौद्धस्य मान्यं भवति समुचितं चेत् क्षणैकस्थितोऽर्थों, नैनं मीमांसकादिः सहत उपगतानल्पकालस्थितार्थः । नाध्यक्षं तत्र मानं स्वयमपि मनुते यत् तदन्त्यक्षणस्य, द्रष्टृणामेव तस्मात् क्षणिकमिति बलात् कल्प्यते प्राक् च दोषः ॥ ८२ ॥ न स्यात् तत्रानुमानं क्षणिकपरिचये नानुमानाङ्गपक्ष धर्मत्वं ज्ञायते नो परित इह तथा व्याप्तिबोधाभ्युपायः । तद्राही स्याद् विकल्पो न च प्रमितिरसौ निर्विकल्पस्तु नेदृग भूतेऽर्थे जायते नो सुगतसुतमते मानमन्यच्च ताभ्याम् ॥ ८३ ॥ प्रत्यक्ष प्रत्यभिज्ञात्मकमपि विमलं स्थैर्यसिद्धौ विदग्धं, मानं बौद्धाभ्युपेतक्षणिकविषयकं बाधते चानुमानम् । प्रामाण्यं तस्य भट्टोऽभ्युपगमपदवीमानयद् युक्तिजालै स्तच्च स्यान्निर्विकल्पात्मकपि च ततो बाधितं बौद्धमान्यम् ॥ ८४ ॥

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442