Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 429
________________ ३६८ अनेकान्तव्यवस्थाप्रकरणम् । ध्वंसो निर्हेतुकश्चेद् भवतु नहि तथाऽमीष्टसिद्धिः परस्य, .... हेतौ व्यापारिते स्यादनुभवविषयो नान्यदा धंस एषः ।। तस्मात् तत्काल एवाभ्युमगमंविषयस्तस्य सत्त्वं स्थिरत्वं, भावानां सिद्धमस्मादपरमपि मतं तस्य युक्त्या निरस्तम् ॥ १०६ ॥ एवं यो यो विकल्पो विगमजनकगो दर्शितो बौद्धबालै र्भावोत्पत्तौ स सर्वो भवति ननु समः सूक्ष्मदृष्टया विभाव्यः । इत्थं वातो त्वनल्पा बुधवरहृदयानन्दिनी सन्निविष्टा, राद्धान्तः सौगतानां प्रलयपथमितो यो बभूवर्जुसूत्रात् ॥ १०७ ॥ मूलं चात्रर्जुसूत्रो नय उपमितितः सत्तरोः पर्यवस्य, शब्दाद्यास्तस्य शाखा इह समनुगमः सम्मतीष्टो निरुक्तः । पार्थक्येनात्र शब्दाद्युपगमविषयो दर्शितो भवितं च, शब्दादीनां कथञ्चिजुनयविषयग्राहितातस्त्वृजुत्वम् ॥ १०८॥ वस्तुस्थित्या न तेषामृजुनयघटना स्यात् तथात्वे प्रभेदा, नीतीनां ते भवेयुर्न नयविभजने तद्विभागो घटेत । सूत्रस्यैव विरोधो यदुत विभजना सप्तधा तत्र दृष्टा, एतेनैव व्युदस्तं नवनयमननं दिक्पटानां व्युदस्तम् ॥ १०९ ॥ तत्र द्रव्यार्थिकाख्यो विशति ननु तथा पर्यवाख्योऽपरोऽपि, इत्थं चैतद् विभक्तप्रविभजनघटा स्यान्न चैको विभागः । किञ्चैवं चार्पितानर्पितनयमिलनात् स्युस्त एकादशोऽपि, तस्माद् युक्ताऽनुयोगाद्युदितविभजना सप्तधैवात्र नान्या ॥ ११०॥ ज्ञेयोऽयं चर्जुसूत्राश्रितवचनघटाविस्तरः सर्व एव, ___ सुस्पष्टानल्पबाह्याभ्युपगमनपरं चान्यथाऽप्यत्र पन्थाः । यस्मिन् सौत्रान्तिकाद्याः सुगतसुतवरा ये चतुस्सङ्ख्यकास्ते । विज्ञेयाश्चर्जुसूत्रादिनयवचनतोऽनुक्रमेणैव विज्ञैः ॥ १११॥ अत्राऽऽशकोत्तराभ्यां बहुविधमुदितं सम्मतेरेव वृत्तौ, ___ नव्योहाऽऽकाटिभिश्चास्मदुपहितलता सर्वथा भावनीया । इत्थं श्रीवाचकेनाप्रतिहतमतिना दर्शिता चर्जुसूत्र नीतेर्दिक्शास्त्रदृष्टया सुगतसुतमतारम्भहेतुप्रपूर्णा ॥ ११२ ॥

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442