Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 437
________________ ३७६ अनेकान्तव्यवस्थाप्रकरणम् । अन्योऽन्यापेक्षितातो भवति ननु तथा नान्यथा तेन तत्रानेकान्तो भावनीयः प्रतिनियतभिदा तावतैवोपपन्ना । भावात् सम्यक्त्वमेतन्ननु जिनसमये या त्वनेकान्ततत्त्वे, श्रद्धा सम्मत्यभीष्टा चरण - करणयोरत्र सम्यग्विचारः ॥ १६२॥ wwwww ये नो जानन्ति सम्यग् निज-परसमयाँस्त जिनात्मानभिज्ञा, नो सत्यत्वेन बोद्धुं तदभिहितपदार्थान् समर्था विविक्तान् । श्रद्धानं नैव तेषां न चरण करणासेवनं तत्त्वदृष्ट्या, गुर्वाज्ञासेवनान्माषतुषप्रभृति के चापि सम्यक्त्वमिष्टम् ॥ १६३ ॥ wwwww गीतार्थाचार्य सेवानिरतमुनिवरे स्यादगीतार्थकेऽपि, wwwww श्रद्धानं भावतो यत् कथयति हरिभद्रार्यवर्यो बुधेन्द्रः । तस्मात् स्याद्वादतत्त्वाऽवधृतिपरबुधे स्यात् तदाज्ञापरे वा, साफल्यं च व्रतादेरिति विबुधवरैरत्र यत्नो विधेयः ॥ १६४ ॥ ग्रन्थान्ते मङ्गलं च प्रणतिरतमसे सर्वतेजोवराया नेकान्तायास्य नित्यं श्रयणमनुमतं स्पर्द्धता नास्य चान्यैः I युद्धं दृष्ट्वा नयानां न भवति विकृतो भूय एवायमेषां, सबैरिटैः प्रपूर्णो मतमिह सकलं चैतदीयार्थनिष्ठम् ॥ १६५ ॥ साङ्ख्यश्चैकं प्रधानं श्रयति बहुगुणं ब्रह्मबद्धं त्वबद्धं, wwwwwwm व्यष्ट्याऽनेकं समष्ट्या जगदपि मनुते चैकमद्वैतवादी । नीलादौ मानमेवं क्षणिक परिचयादौ न मानं तथैकं, चित्रं ज्ञानं च ताथागत इह मनुतेऽपेक्षया चाविरुद्धम् ॥ १६६ ॥ कुम्भे चित्रं च रूपं पृथगपि वदतो नील - पीतादिरूपं, योगो वैशेषिकश्चाथ च गुरुप्रथिता धीः परोक्षापरोक्षा । अन्ये मीमांसकाश्चाभिदधति जगतो द्विस्वभावं च तस्मात्, ww सर्वेऽनेकान्तवादं क्वचिदपि विषये वादिनः संश्रयन्ति ॥ १६७ ॥ सौसादृश्यानुषङ्गात् परमतपरिषद्धी मुखे धर्मवगैः, स्याद्वादाग्रेऽनुरूपा भवति नववधूः स्त्रीविमुक्तत्याद्यनिच्छुः ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442