Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् । ३५९ तत्तेदन्तावतोर्यद् भवति ननु कथञ्चित् तु तादात्म्यबन्धो,
भेदा-ऽमेदात्मकोऽसौ नहि भवति विरोधोऽपि चाध्यक्षसिद्धे। नैवं चेच्चित्ररूपाद्यवगतिविषये लक्षणा स्यात् त्वखण्डे, .. इष्टा चेद् द्रव्यदृष्ट्या तदिह भवतु पर्यायदृष्ट्या सखण्डः ॥ ४३ ॥ तत्त्वेऽखण्डार्थशब्देऽप्यनुभवतु कृती खण्डबोधार्थमेनां,
नाखण्डस्यैव बोधो भवति न तु तथा खण्डधीरत्र मानम् । खण्डाखण्डार्थबोधोद्भवबलत इदं वस्तु मान्यं कथञ्चित्,
खण्डाखण्डस्वरूपं कलय ननु जिनाज्ञां समालम्ब्य वादिन् । ॥ ४४ ॥ अर्थोऽयं सम्मतावप्यनुमतिविषमस्तेन वस्त्वेवमेव,
ब्रह्माखण्डैकरूपं श्रुतिरपि मनुते निश्चयालम्बनेन । नो शुद्धे ब्रह्मतत्त्वे कथमपि घटते लक्षणा बन्धरूपा,
तात्पर्य नाप्यखण्डेऽनधिगतिविषये ब्रह्मणि स्याच्च युक्तम् ॥ ४५ ॥ तद्वाच्यो यः परात्मा जिनपदगदितस्त्वंपदार्थोऽन्तरात्मा,
भेदा-ऽभेदात्मबन्धस्तदुभयनियतस्तत्त्वमस्यादिवाक्यात् । तात्पर्येणावधार्यों जिनसमयविदा नात्र दोषस्य लेशो,
वेदान्ताः सर्व एव स्तुतिविषयपरा नाद्वयार्था विभाव्याः ॥ ४६ ॥ वेदे विध्यर्थवादानुवचनपरता भाष्यवृत्त्यादिसिद्धा, ___ स्वार्थे मानं न वेदान्तवचनमिति मीमांसकाः सङ्गिरन्ते । विध्यङ्गत्वं तु हेतुः प्रभवति न च तत्त्वं प्रसिद्ध विधीनां, .
नाङ्ग वेदान्तवाक्यं दिगियमभिहिता सङ्ग्रहस्य प्रपूर्णा ॥ ४७ ॥ सामान्यं यो विशेषाभ्युपगमप्रवणो नाभ्युपैत्येव धर्म,
लोके सर्वा विशेषाद् व्यवहृतिरुदयं याति सामान्यतो नो। बाहुल्येनोपचारं कलयति स नयो नैगमात् सङ्ग्रहाच्च,
भिन्नो ज्ञेयो नयज्ञैर्व्यवहृतिरिति यन्नाम शास्त्रे प्रतीतम् ॥ ४८ ॥ सामान्य नो विशेषेभ्य इह परतया भासते लोकयात्रा,
सर्वा सिध्येद् विशेषाद् ग्रहणमनुगतस्यास्तु तद्भान्तमेव । द्रव्यार्थाद् दोषजन्यं नहि भवति ततो वस्तुसिद्धिर्यतो नो.
यावद्व्यक्तिभ्य एतन्नहि मतिविषयो भिन्नभावेन मातुः ॥ ४९ ॥

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442