Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 404
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३४३ अनेकान्तवादस्य विश्वव्यापकत्वरूपमाहात्म्यप्रदर्शयित्री प्रशस्तिः। विना यं लोकानामपि न घटते संव्यवहृतिः, __समर्था नैवार्थानधिगमयितुं शब्दरचना । वितण्डा चाण्डाली स्पृशति च विवादव्यसनिनं, नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे ॥१॥ -- इति श्री अनेकान्तवादस्य सर्वदर्शनसूत्रणसूत्रधाराभ्युपगतानेकान्ततत्त्वप्ररूपकत्वादिमाहात्म्यावेदिकां प्रशस्ति प्रश्नाति विना यमिति-तस्मै कस्मैचिदनिशमनेकान्तमहसे नमः, यमेकान्तं विना लोकानां संव्यवहृतिरपि न घटते, यं विना शब्दरचनाऽर्थानधिगमयितुं नैव समर्था, च पुनः, यं विना वितण्डा चाण्डाली विवादव्यसनिनं स्पृशतीत्यन्वयः । तस्मै सकललोकसंव्यवहाराभावप्रयोजकाभावप्रतियोगिने शब्दरचनागतार्थाधिगमसामर्थ्याभावप्रयोजकाभावप्रतियोगिने वितण्डाचाण्डालीनिष्ठविवादव्यसनिस्पर्शकर्तृत्वप्रयोजकाभावप्रतियोगिने च, कस्मैचित् अनिर्वचनीयाय, यत एतावन्तोऽस्य गुणा इत्येवं निर्वचनं न सुरगुरुणाऽपि कर्तुं शक्यत इति । अन्यानि सूर्य-चन्द्रप्रभृतीनि महांसि कतिपयकालमभिव्याप्य प्रकाशन्ते, अनेकान्तमहस्तु सर्वकालं सर्ववस्त्वभिव्याप्य प्रकाशत इति सर्वमहसामिदमेव प्रधानमित्यनिशमनेकान्तमहसे, यतो यत् किमपि वस्तु यत्र कुत्रापि देशे यदा कदापि काले येन केनापि प्रकाशेन प्रकाशितं भवति तदनेकान्तसम्पृक्तमेव, प्रकाशकोऽपि च सर्वोऽनेकान्तस्वरूपतामापन्न एव प्रकाशस्वभावतामश्चतीति । नमः अस्त्विति क्रियापदमत्र बोध्यम् , अस्मज्ज्ञानीयमदवधिकोत्कृष्टत्वनिष्ठप्रकारतानिरूपितविशेष्यतावदनेकान्तमह इत्यर्थः, इत्थं प्रधानत्वेऽपि नमश्शब्दसमभिव्याहारात् तद्वाचकशब्दस्य चतुर्थ्यन्तत्वमिति । 'अनिशम्' इति 'नमः' इत्यत्राप्यन्वेति, तेनानेकान्तमहसे सर्वदा नमस्कारोऽस्त्वित्यप्यर्थो लभ्यते । लोके एक एव पुरुषः 'अयं पिता, अयं पुत्रः, अयं मातुलः, अयं भागिनेयः' इत्येवं यद् व्यवह्रियते तदेकस्यापेक्षाभेदेनानेकधर्मात्मकत्वं विना न सम्भवति, एक एव च घटादिः 'अयं घटः, इयं पृथिवी, इदं द्रव्यम् , अयं गुणवान् , अयं क्रियावान् , अयं जलाहरणसमर्थः' इत्येवं यद् व्यवह्रियते तत् तस्यानेकान्तत्वं विना न घटते इति युक्तमुक्तम्विना यं लोकानामपि न घटते संव्यवहृतिरिति । परस्यार्थविशेषावबोधनाय वाक्यं प्रयुज्यते, वाक्यं च सर्व तत्तत्पदसमभिव्याहृतापरपदरूपात्मकशब्दरचनात्मक मेव, पदानि च प्रतिनियतार्थविशेषे सङ्केतितान्येवार्थविशेषावबोधं जनयन्ति, सङ्केतश्च

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442