Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 410
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३४९ न यन्नाम ब्रूते समयविगमहीपरवशा, हृदा तु स्नेहं न त्यजति विपुलं यद्गुणकृतम् । अनेकान्तस्याग्रे कलितविनया मौनरचनादिदानी सञ्जाता ननु नववधूर्वादिपरिषत् ॥१०॥ परोऽपि प्रभाकरभिन्नोऽपि, जैमिनीसुतः पूर्वमीमांसासूत्रप्रणयनकर्तृजैमिनिमतानुयायी कुमारिलभट्टः, जगति वस्तुमात्रे भेदाऽभेदलक्षणं द्वैरूप्यं गुण-गुण्यादीन सामान्य-तद्वतां च भेदा-ऽभेदलक्षणाविष्वग्भावसम्बन्धस्यैव तेनाभ्युपगमात् , भावा-ऽभावोभयरूपत्वलक्षणं द्वैरूप्यं वा, अभावस्याधिकरणस्वरूपतयैव तेनोररीकारात् , सर्वस्यैव भावस्य यत्किञ्चित्पदार्थाभावाधिकरणत्वेनाभावरूपत्वात् , कलयन् अभ्युपगच्छन् , कुतः कस्मात् कारणात् , स्याद्वादं न स्पृहयति नाभ्युपगच्छति, अपित्वभ्युपगच्छत्येव, यः कुमारिलभट्टो रुच्या स्वेच्छामात्रेण, अर्थविमुखः अर्थ न स्वीकरोति, किन्तु युक्त्युपेतमेवार्थमुररीकरोतीत्यर्थः ॥ ९ ॥ __ अनेकान्तस्य प्रमाणराजस्य वादिपरिषन्नववधूरिति दर्शयति-यथा नववधून स्वामिनामोच्चारणं करोति, स्वामिगुणप्रभवं स्नेहं स्वामिविषयकं हृदयेन गृह्णाति स्वामिनोऽग्रे विनीता मौनमवलम्ब्यावतिष्ठते तथैव सर्व वादिपरिषत् समाचरतीत्युपदर्शयति-न यन्नामेति-समयस्यैकान्ताभ्युपगमलक्षणस्वसिद्धान्तस्य यो विगमोऽपहतिस्तत्प्रभवा या हीर्लजा तत्परवशा तदधीना सती वादिपरिषत् , यन्नाम यस्यानेकान्तस्य नाम, न ब्रूते नोच्चारयति, अनेकान्तवादः कान्त इत्येवमुच्चारिते एकान्तवादिपरिषदः स्वराद्धान्तहानिः स्यादतस्तथा न ब्रूत इत्यर्थः, स्वीयतत्त्वनिरूपणे तत्र तत्र तत्त्वेऽनेकधर्मसमावेशमुपदर्शयतीत्यतः, यहुणकृतं यस्यानेकान्तस्य गुणप्रभवं विपुलं स्नेहमनेकान्ततत्त्वे रागं, हृदा हृदयेन न त्यजति तथाऽनेकान्तस्यानेकान्तवादस्याग्रे, कलितविनया कलितः स्वीकृतो विशिष्टो नयो नैगमादिर्यथा सा कलितविनया, कथम्मेवम्भूताऽवधार्यतेऽत आह-मौनरचनात् अनेकान्तवादिनाऽनेकान्ततत्त्वे युक्तितो व्यवस्थापिते सर्व एवैकान्तवादिनो मूका एव भवन्तीत्यर्थः, इदानीम् अस्माभिरनेकान्तव्यवस्थाप्रकरणे सम्पूर्णभावमुपनीते सति तत्कालं, सञ्जाताऽभवत् , ननु निश्चितम् , नववधूः नवपरिणीता वधूरिव ॥ १० ॥

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442