Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 406
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३४५ अनेकान्तं वादं यदि सकलनिर्वाहकुशलं, मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा । तदा किं नो भावी बहुलकलिकौतूहलवशाद्, घटानां निर्मातुत्रिभुवनविधातुश्च कलहः॥३॥ मिथो द्वारा युध्यन्ते महिषसदृशा ये परनयाः, प्रयातारः खेदं त इह बहुधा जर्जरतराः। अनेकान्तो द्रष्टा पुनरवनिपालः प्रकृतितः, परावृत्तिं नैभ्यो व्रजति परिपूर्णाभिलषितः॥४॥ अनेकान्तमिति-यदि सकल निर्वाहकुशलं सकललोकयात्रासमर्थननिपुणम् , अनेकान्तवादम्, नयलवसमुत्थानि नयैकदेशसमाश्रयणसञ्जातानि, मतानि एकान्तवादिदर्शनानि, बहुधा स्पर्धन्ते यथा स्याद्वादस्तत्त्वावबोधनैपुण्यं बिभर्ति तथा वयमपि तत्त्वावबोधनसमर्था नास्मानतिशेते स्याद्वादः' इत्येवं बहुधा-बहुप्रकारेण, स्पर्धन्ते-स्पर्धा कुर्वन्ति, तदा तर्हि, बहुलं बहुप्रकारं यत् कलिकौतूहलं तद्वशाद् घटानां निर्मातुः कुलालस्य, त्रिभुवनविधातुः त्रिभुवननिर्माणदक्षस्य जगत्कर्तुरीश्वरस्य, एतच्च पराभ्युपगतं समाश्रित्य, कलहः 'अहं त्वत्तोऽवरोऽहं त्वत्तो वरः, इत्यादिरूपः कलिः, किं नो भावी किं न स्यात् , अपि तु स्यादेव, त्रिभुवनविधातुः कुम्भकर्तुश्च यावान् विशेषस्तावान् अनेकान्तवादैकान्तवादयोर्विशेष इति हृदयम् ॥३॥ मिथ इति-महिषसदृशाः असमीक्ष्यकारिस्वाभाव्याः परस्परं योद्धुमेव व्यवसिता यथा महिषास्तथा विवादफलमनादृत्य परस्परं वादाख्ययुद्धं कामयमाना एकान्तवादिनो ये परनया, द्राग् झटिति, मिथो युध्यन्ते ते वादिनः, इह कथायां बहुधा बहुप्रकारेण परयुक्तिसमष्टिप्रहारव्याहतस्वयुक्तिस्तोमशरीरत्वाजर्जरतराः सन्तः खेदं पराजयलक्षणदुःखं प्रयातारः, यथा महिषाः परस्परं युद्धं कुर्वाणा जर्जरशरीरतामुपगताः सन्तो दुःखमेव भजन्ते, न तु किमप्यभिलषितं फलमासादयन्ति तथा परनया अपीत्यर्थः, पुनः, इत्थं विवदमानानां परनयानां द्रष्टा उपेक्ष्यदृष्ट्या 'किमपीदमज्ञानविजृम्भितं कौतुकम्' इत्येवं प्रेक्षकोऽनेकान्तः परिपूर्णाभिलषितः सन् , एभ्यः परस्परं विवदमानेभ्यः परेभ्यः, प्रकृतितः स्वस्वभावात् , परावृत्तिम् अन्यथाभावं, न व्रजति न याति अत एव अवनिपालः अवनिपाल इव, यथा राजा परस्परं विवदमानानां महिषसदृशानां मूढानां स्वराज्यसंस्थितानां द्रष्टा न तेभ्यः प्रकृतितो राजस्वभावात् परावृत्तिं यथा तथेत्यर्थः ॥ ४ ॥

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442