Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 407
________________ ३४६ अनेकान्तव्यवस्थाप्रकरणम् । विरुद्धैः सत्त्वाद्यैरिह बहुगुणैर्गुम्फिततर्नु, प्रधानं यो वाञ्छत्यखिलजगतः सर्गनिपुणम् । अनेकान्तं सांख्यः स कथमवमन्येत विलसेत्, प्रमाणाक्षक्रीडारसिकहृदयश्चेत् परिषदि ॥५॥ अबद्धं तत्त्वेन व्यवहृतिवशाद् बद्धमुपयन् , परं ब्रह्म व्यष्ट्या जगदपि समष्ट्या च विविधम् । सर्वतैर्थिकानां स्याद्वादाभ्युपगन्तृत्वं समस्तीति प्रतिपादयितुं प्रथमतः साङ्ख्यस्य स्याद्वादाभ्युपगन्तृत्वं प्रतिपादयति-विरुद्धैरिति-यः साङ्ख्यः, इह वस्तुतत्त्वनिरूपणे, विरुद्धैः परस्परविरुद्धैः, “सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥” [ ] इति वचनाल्लघुत्व-प्रकाशकत्व. धर्मयोगि सत्त्वम् , उपष्टम्भकत्व-चलत्वधर्मयोगि रजः, गुरुत्वा-ऽऽवरणकत्वधर्मयोगि तमः, इत्येवं परस्परविरुद्धताऽवसेया, सत्त्वाद्यैः सत्त्व-रजस्तमोभिः, बहु. गुणैः त्रित्वात्मकबहुत्वसंख्याविशिष्टगुणैः, गुम्फिततनुं व्याप्तशरीरं त्रिगुणमयमिति यावत् , अखिलजगतः सर्गनिपुणं निखिलजगदाविर्भावकारणम् , तन्मते उत्पत्तिलक्षणसर्गस्याविर्भावरूपत्वात् , एवम्भूतं प्रधानं प्रकृतिमभ्युपगच्छति, अत्र प्रधानमित्येकवचनान्तप्रधानपदेनैकत्वसंख्याविशिष्टप्रधानं प्रतिपाद्यमभिमतम्, तथा चैकरूपमनेकरूपं च प्रधानमेकमपि सदनेककार्यकारित्वतोऽनेकस्वभावमित्यनेकान्तात्मकमेव प्रधानं साङ्ख्याभ्युपगतं भवतीति, स इत्थमनेकान्तात्मकप्रधानाभ्युपगन्ता साङ्ख्यः कापिलदर्शनानुगामी, चेत् यदि, परिषदि सभायां प्रमाणाक्षक्रीडारसिकहृदयः प्रमाणान्येवाक्षाः, तैः क्रीडनम, प्रमाणव्यवहरणात्मकाक्षक्रीडने द्यूते रसिकमुत्सुकं तत्प्रवणमिति यावत् , हृदयमन्तःकरणं यस्य स प्रमाणाक्षक्रीडारसिकहृदयः, एवम्भूतः सन् विलसेत् तदा कथमनेकान्तमवमन्येत, येन प्रमाणेनानेकान्तं प्रधानं सिध्येत् तेन प्रमाणेन वस्तुमात्रमप्यनेकान्तं सिद्ध्येदेव, प्रधानं वा दृष्टान्तीकृत्य वस्तुत्व-प्रमेयत्वादिहेतुनाऽशेषस्यैव जगतोऽनेकान्तत्वं सिध्येत् , एवमपि यद्यनेकान्तं स नाभ्युपेयात् प्रमाणाक्षक्रीडास्पदविद्वद्गोष्ठीबहिर्भूत एव भवेदित्यभिसन्धिः ॥ ५॥ वेदान्तिनोऽप्यद्वैतवादिनोऽनेकान्तत्वाभ्युपगन्तृत्वं दर्शयति-अबद्धमिति-परं ब्रह्म शुद्धचैतन्यम् , तत्त्वेन परमार्थतः, अबद्धं मायालक्षणबन्धनरहितम् , व्यव

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442