Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 297
________________ २३६ अनेकान्तव्यवस्थाप्रकरणम् । P प्यवयवद्वारा विभागाभावात्, अत्र तु तद्वारा विभागेन विशेषात् तद्वारा विभागकरण एवं किं बीजमिति चेत् ?, सावयवनिरवयवात्मकवस्तुनस्तथाप्रतिपत्तिजनकसावयवनिरवयवत्वशबलैक स्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिक् ॥ ४ ॥ एकस्य देशस्य सत्त्वेनाऽपरस्य च युगपदुभयथादेशे द्वितीयो विकलादेशः । आह — "सब्भावे आइट्ठो देसो देसो य उभयहा जस्स । तं अस्थि अवत्तव्वं च होइ दवियं विअप्पवसा || " [ सम्मतितर्फे का० १, गा० ३८ ] अस्यार्थः – सद्भावे - अस्तित्वे, यस्य - घटादेर्धर्मिणः, देशः- धर्मः, तु तुरीयभङ्गे पुनः । तद्वारा अवयवद्वारा । शङ्कते -तद्वारेति - प्रथम-द्वितीययोरस्तित्वनास्तित्वावच्छेदकद्वारा तुरीयेऽवयवद्वारेत्यर्थः, 'किं बीजम्' इत्यत्र किम आक्षेपार्थत्वान्नास्ति बीजमित्यर्थः । वस्तुनः सावयव - निरवयवोभयस्वरूपत्वम् । तत्र निरवयवत्वप्रतिपत्तिकालेऽवयवस्तस्य न विवक्षितोऽतो निरवयववस्तुप्रतिपत्तिप्रवणप्रथमद्वितीयभङ्गयोरस्तित्वनास्तित्वावच्छेदकद्वारा विभजनम्, सावयववस्तुप्रतिपत्तिप्रवणतुरीयभङ्गेऽवयवद्वारा विभजनम्, ततश्चैकवाक्यतया सावयव - निरवयवात्मकवस्तुप्रतिपत्तिजनकवाक्यत्वेन सप्तभक्त्याः प्रामाण्यं सुरक्षितं भवतीत्यस्त्येव बीजमिति समाधत्ते - सावयवेति । तथा प्रतिपत्तीति - सावयव - निरवयवप्रतिपत्तीत्यर्थः, सप्तभङ्ग्या आद्यभङ्गत्रयावच्छेदेन निरवयवत्वं तुरीयादिभङ्गावच्छेदेन सावयवत्वमित्येवं सावयवत्व-निरवयवत्वशबलं यत् सप्तभङ्ग्यात्मकमेकवाक्यम्, तत्त्वेन प्रामाण्यरक्षार्थमुक्तदिशा विभागकरणमित्यर्थः । 'स्यादस्त्येव स्वादवक्तव्य एव च घटः इति पञ्चमं भङ्गं द्वितीयविकला देश भावयति - एकस्येति । 'सत्त्वेन ' ' इत्यस्य आदेशे' इत्यनेनान्वयः । उभयथा सत्त्वाऽसत्त्वाभ्याम् । तत्र सम्मतिगाथां प्रमाणयति-आह चेति सब्भावे इति" सद्भावे आदिष्टो देशो देशश्च उभयथा यस्य । तदस्ति अवक्तव्यं च भवति द्रव्यं विकल्पवशात्” ॥ इति संस्कृतम् । अस्यार्थः - अनन्तरोपदर्शितसम्मतिवच wwwww

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442