Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 315
________________ २५४ अनेकान्तव्यवस्थाप्रकरणम् । नत्र उपसर्गवद् द्योतकतया तात्पर्यग्राहकत्वमात्रमेव, घटपदस्य घटप्रतियोगिके लक्षणाध्रौव्येऽभावान्तर्भावेनैव तस्या युक्तत्वादिति चेत् ? न-'न न घटः' इत्यत्रैकस्माद् घटपदाद् घटत्व-घटाभावाभावत्वाभ्यामेकदा शक्ति-लक्षणाभ्यां बोधासम्भवेन नबः पृथक्शक्तिकल्पनावश्यकत्वाद्, द्योतकत्वपक्षेऽपि 'घटो नास्ति' इत्यादिवाक्यरीत्यैव 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधाप्रतिरोधाच्च, तस्मानायं प्राञ्जलः पन्थाः, किन्तु कथञ्चिदवक्तव्यत्वमिह 'एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्', तद्वोधनं त्वर्थनये मानसोत्प्रक्षोपस्थितखण्डशःप्रसिद्धपदार्थासंसर्गाग्रहमात्रात् कथइत्येवम्भूततात्पर्यग्राहकमेव तत्र न पदम् , यथा-धातोरर्थविशेषे तात्पर्यग्राहक उपसर्गः, नपदस्याभावाभिधायकत्वेऽपि घटपदस्य घटप्रतियोगिके लक्षणाया आवश्यकत्वे सा घटप्रतियोगिकाभाव एव स्वीक्रियत इत्याशङ्कते तत्रापीति-'घटो नास्ति' इत्यादावपीत्यर्थः । तस्याः लक्षणायाः । समाधत्ते-नेति । 'न न घटः' इत्यत्र नवयस्य तात्पर्यग्राहकत्वे घटपदमेकमेवावशिष्यते बोधकम् , तद् यदि घटप्रतियोगिकाभावप्रतियोगिकाभावे लाक्षणिकं तदा घटाभावाभावत्वेनैव घटस्य बोधः स्यात् , न तु घटत्वेन घटस्य बोधो भवेत् , भवति च घटत्व-घटाभावाभावत्वाभ्यां घटस्य बोधः, तदर्थ यदि घटत्वेन घटे शक्तिघटाभावाभावत्वेन च तत्र लक्षणेत्येवं वृत्तिद्वयमेकदा तस्येष्यते, तच्च न सम्भवति; एकदैकपदेन शक्ति-लक्षणाभ्यां शक्य-लक्ष्यार्थोभयविषयकबोधस्यानङ्गीकाराद्, अतो नञोऽभावे पृथक् शक्तिकल्पनाऽऽवश्यकीति नजस्तात्पर्यग्राहकत्वपक्षेऽपि च 'घटो नास्ति' इत्यस्य वाक्यविधयैवार्थावबोधकत्वमिति तन्नीत्या 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधः स्यादेवेत्येवमप्यवक्तव्यत्वभङ्गः शब्दनय उपपद्यत एवेत्याह-द्योतकत्वपक्षेऽपीति । यथाश्रुतव्याख्यानस्याऽसमीचीनत्वमुपसंहरति-तस्मादिति। पृच्छति-किन्त्विति । उत्तरयति-कथञ्चिदवक्तव्यत्वमिहेति । एकेति-एकपदेन पदान्तरासहकृतपदेन जन्यो यः प्रातिस्विकधर्मद्वयावच्छिन्नविषयकः स्वस्वासाधारणधर्माकलितधर्मद्वयावच्छिन्नविषयकः शाब्दबोधस्तदविषयत्वं तद्विषयत्वाभावः प्रकृते कथञ्चिदवक्तव्यत्वमित्यर्थः । तद्बोधनं तु निरुक्तावक्तव्यत्वबोधनं पुनः । अर्थनये सङ्ग्रह-व्यवहारर्जुसूत्रनये । मानसेति

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442