Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 353
________________ अनेकान्तव्यवस्थाप्रकरणम् । असद्भूतव्यवहारेण कर्म- नोकर्मणोरपि चेतनस्वभावः १२, परमभावग्राहकेण कर्म- नोकर्मणोरचेतनस्वभावः, जीवस्याप्यसद्भूतव्यवहारेणाऽचेतनस्वभावः १३, परमभावग्राह्केण कर्म-नोकर्मणोर्मूर्तस्वभावः, जीवस्याप्यसद्भूतव्यवहारेण मूर्तस्वभावः १४, परमभावग्राहकेण पुद्गलं विहायेतरेषाममूर्तस्वभावः, पुद्गलस्योपचारादपि नास्त्य - मूर्तत्वम्, मुख्यार्थबाधे सति तथाव्यवहाराभावात् एवं सति २९२ 2 नयविशेषेण जीवस्य चेतनस्वभावः सिद्ध्यतीत्यर्थः । असद्भूतेति - असद्भूतव्यवहारलक्षणोपनयविशेषेण कर्म-कर्मदेशयोश्चेतनस्वभावः सिद्ध्यति, कर्म- नोकर्मणोर्नास्त्येव चैतन्यमथापि तयोस्तदरोप्यत इत्यसद्भूतस्य कर्म- नोकर्मगतचैतन्यस्य ग्राहकत्वादसद्भूतव्यवहारत्वं बोध्यम् । यदेव यत्र वस्तु सत् तदेव परमभावग्राह केण नयेन गृह्यत इति कर्म-नोकर्मणोरचेतनस्वभाव एव परमस्वभाव इति स तथा ग्राहकेण नयेन सिद्ध्यतीत्याह-परमस्वभावग्राह केणेति । जीवश्चेतनस्वभाव एव, अथापि तस्याचेतनस्वभावोऽसद्भूतव्यवहारलक्षणोपनयविशेषेण गृह्यत इत्याह-जीवस्यापीति । कर्म-नोकर्मणोर्वस्तुगत्या मूर्तस्वभाव एव पौद्गलिकत्वात्, परमार्थस्वरूपग्राहकेण परमस्वभावग्राहिणा नयेन तयोर्मूर्तस्वभावः सिध्यतीत्याह - परमभावग्राहकेणेति । जीवस्यामूर्तस्यापि सतो मूर्तशरीरसम्बन्धादारोपितो मूर्तस्वभावः सोऽसद्भूतव्यवहारलक्षणोपनयविशेषेण सिद्ध्यतीत्याह - जीवस्यापीति । पुद्गलभिन्नानां सर्वेषामपि द्रव्याणां परमार्थतोऽमूर्तस्वभावः परमभावग्राहकेण नयेन सिद्ध्यतीत्याह - परमभावग्राहकेणेति । यथा जीवस्योपचाराश्रयणेनासद्भूतव्यवहारेण मूर्तत्वम्, न तथा पुद्गलस्यामूर्तत्वम्, यद्यपि मूर्तपदस्य मुख्योऽर्थो रूपवत्त्वलक्षणो यथा जीवे बाधितः तथा पुद्गलेऽप्यमूर्तपदस्य मुख्योऽर्थो रूपवत्त्वविरहलक्षणो बाधितः, तथापि जीवो मूर्तत्वेन व्यवह्रियत इति तत्र तस्योपचार आश्रीयते, पुद्गलस्तु नामूर्ततया व्यवह्रियत इति न तत्र तस्योपचाराश्रयणम्, किन्तु पुद्गलपरमाणुः प्रत्यक्षेण न गृह्यते, किन्तु परोक्षप्रमाणेनैवेति परोक्षप्रमाणापेक्षया पुद्गलाणुरमूर्ततया व्यवहियतेऽतस्तत्रासद्भूतव्यवहारेणोपचारेणामूर्तत्वमित्याह - पुद्गलस्येति - 'मुख्यार्थबाधेऽसति' इत्यत्राकारप्रश्लेषः, तेन तस्य मुख्यार्थबाधे सत्यपीत्यर्थः । तथा व्यवहाराभावात् पुद्गलस्यामूर्ततया व्यवहाराभावात् । भवतु पुद्गलस्योपचारादपि नामूर्तत्वं तेन का

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442