Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 381
________________ ३२० अनेकान्तव्यवस्थाप्रकरणम् । निमित्तापरिज्ञानान्मृषावादिवदिति तात्पर्यार्थः । ततोऽनेकान्तवाद एव व्यवस्थितः ॥ ननु सर्वत्राऽनेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तादेकान्तप्रसक्तिरिति चेत् ? अत्र वदन्ति "भयणा वि हु भइयवा, जह भयणा भयइ सबवाई। एवं भयणा णियमो वि, होइ समयाविरोहेण ॥" . [सम्मतिकाण्ड० ३, गाथा-२७] यथा भजना-अनेकान्तः, अजते-सर्ववस्तूनि तदेतत्स्वभावतया ज्ञापयति, यथा भजनापि-अनेकान्तोऽपि, भजनीया-अनेकान्तोऽप्य 'नित्यत्वा-ऽनित्यत्वादयः सर्वे धर्माः स्वसमानाधिकरणात्यन्ताभावप्रतियोगिनो धर्मत्वात् कपिसंयोगादिवद् इत्यनुमानमनेकान्तस्य सर्वव्यापकत्वे प्रमाणमभिमतं स्याद्वादिनाम् तच्च न सम्भवति धर्मत्वस्यानेकान्तत्वेऽपि सत्त्वेन तत्र स्वसमानाधिकरणैकान्तत्वरूपाभावप्रतियोगित्वसद्भावस्यैकान्तापत्तिभिया स्वीकर्तुमशक्यत्वेन तत्रैव व्यभिचारात् स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्व-धर्मत्वयोर्व्याप्त्यासिद्धेः, तयोरविनाभावोपपत्तये यद्यनेकान्तत्वेऽपि स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमुपेयत एव तदाऽनेकान्त एवैकान्त इत्यतोऽपि न सर्वव्यापकत्वमनेकान्तत्वस्येत्युभयतः पाशा रज्जुरिति शङ्कते-नन्विति । उक्ताशङ्कासमाधानपरतया सम्मतिगाथामवतार्य दर्शयति-अत्र वदन्तीति-उक्ताशङ्कायां समाधानमभिदधतीत्यर्थः । भयणा वि० इति-"भजनाऽपि खलु भजनीया यथा भजना भजते सर्वद्रव्याणि । एवं भजना नियमोऽपि भवति समयाविरोधेन ॥” इति संस्कृतम् । विवृणोति-यथेतिद्वितीयचरणव्याख्येयम् । 'भजना' इत्यस्य 'अनेकान्तः' इत्यर्थः 'सर्वद्रव्याणि' इत्यत्र द्रव्यपदं वस्तुसामान्यपरमित्यभिसन्धानेनाह-सर्ववस्तूनीति। 'भजते' इत्यस्य 'तदतत्स्वभावतया ज्ञापयति' इत्यर्थः, 'तदेतद' इति मुद्रणदोषात् । प्रथमचरणव्याख्यामाह-तथेति । अनेकान्तवाचकस्त्रीलिङ्गभजनाशब्दसमभिव्याहाराद् 'भजनीया' इति स्त्रीलिङ्गमुक्तम् । 'भजनाऽपि भजनीया' इत्यस्य अनेकान्तोऽप्यनेकान्तः' इत्यर्थः । अस्माकं जैनानाम् । कथमिष्टमनेकान्तस्या

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442