Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 396
________________ तत्त्वबोधिनीविवृतिविभूषितम् तृणादिकं दहतीति दहनः, तदपरिणतिस्वभावं त्वात्मा-ऽऽकाशा-ऽप्राप्तवज्रा-ऽण्वादिकं न दहतीत्यदहनः, तेन यद् द्रव्यं यथा-दहनरूपतया प्रतिषिद्धम् , तद् द्रव्यमदहनादिकम् , तथा भजनाप्रकारेण स्याद् दहनः स्यान्नेति भवति, ततो नाव्याप्यनेकान्तः । तथाऽदहन इत्यत्राप्यनेकान्तः, तथाहि-यदुदकद्रव्यं दहनरूपेण प्रतिषिद्धं दहनो न भवतीत्यदहन इति भवति' तदपि न सर्वथाऽदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात् , अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव, दहनव्यावृत्तस्य तदतद्रव्यत्वात् । नन्वेवं तदतद्रव्यत्वाज्जीवद्रव्यमजीवद्रव्यं अजीवद्रव्यं च जीव द्रव्यं स्याद् इत्याशङ्कायामाह विवृणोति-गणेनेति । दहनादावनेकान्तात्मकत्वं भावयति-तथाहीति । तदपरिणतिस्वभावं दाहापरिणतिखभावम् । अप्राप्तेति-दहनः प्राप्तं स्वसंयुक्तमेव दाहपरिणतिस्वभावं तृणादिकं दहति, न तु दाहपरिणतिखभावमपि स्वासंयुक्तमित्यसंयुक्तेत्यर्थः । यद् द्रव्यं दहनद्रव्यम् । 'यथा' इत्यस्यार्थः-दहनरूपतया अदाह्यखभावं प्रति दहनत्वेन रूपेण । तद् द्रव्यं दहनद्रव्यम् । अदहनादिकम् अदहनादिस्वभावम् । दहनमेवापेक्षयाऽदहनादिकम् , तत् किं दहनं सर्वथाऽदहनमित्याकाङ्क्षायामाह-तथेति-अस्यार्थो भजनाप्रकारेणेति । भजनाप्रकारमेवाहस्याद् दहनः स्यान्नेतीति । दहने दहना-ऽदहनाखरूपव्यवस्थापनेनानेकान्तस्य सत्त्वमुपदादहनेऽनेकान्तमुपदर्शयति-तथेति । अदहनेऽनेकान्तं भावयति-तथा हीति। दहनरूपेण प्रतिषेधस्य स्वरूपमुल्लिखति-दहनो न भवतीत्यदहन इति भवतीति । तदपि दहनरूपेण प्रतिषिद्धमुदकद्रव्यमपि । निषेधे हेतुमाहपृथिव्यादेरिति-यददहनादेावृत्तं तददहनं न भवति यथा दहनम् , उदकमप्यदहनादिस्वरूपं यत् पृथिव्यादि ततो व्यावृत्तत्वाददहनं न भवतीति । अन्यथा उदकद्रव्यस्यादहनात् पृथिव्यादितो व्यावृत्तत्वाभावे । अनेकान्तत्वमेव स्पष्टयतिदहनव्यावृत्तस्येति-दहनभिन्नस्योदकस्येत्यर्थः । तदतद् द्रव्यत्वात् अदहनतदन्यद्रव्यत्वात्। जीवद्रव्यस्यापि जीवद्रव्यत्वमजीवद्रव्यत्वं च; अजीवद्रव्यस्याप्यजीव

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442