Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 401
________________ ३४० अनेकान्तव्यवस्थाप्रकरणम् । पयोगात्मकं निष्कलङ्कम् न जानन्ति - नानुभवन्ति, ज्ञान-दर्शनचारित्रात्मक कारणप्रभवत्वात् तस्य, कारणाऽभावे च कार्यस्यासम्भवात्, अन्यथा तस्य निर्हेतुकत्वापत्तेः, करण-चरणयोश्च चारित्रात्मकत्वाद्, द्रव्य-पर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावात्, अथवा चरण-करणयोः सारं निश्चयेन शुद्धं सम्यग्दर्शनं ते न जानन्ति, न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचिः, न च स्वसमय पर समयतात्पर्यार्थावगमे तदवबोधो वोटिकादेखि सम्भवी । अथ जीवादिद्रव्यार्थ - पर्यायार्थापरिज्ञानेऽपि यदर्हद्भिरुक्तं तदेवैकं सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः — “भण्णइ तमेव सच्चं णिस्संकं जं जिणेहिं पण्णत्तं " ] इत्याद्यागमप्रामाण्यात्, न - स्वसमय पर समय परमार्थानभिज्ञैर्निरावरणज्ञानदर्शनात्मकजिनस्वरूपाज्ञानवद्भिस्तदभिहितभावानां [ । तदनुभवनं भवेत्, स्वसमय पर समयमुक्तव्यापाराणां च तथाविधज्ञानादिलक्षणकारणाभावान्न तत्सम्भव इत्याह-ज्ञान- दर्शनेति । तस्य निष्फलकज्ञानदर्शनोपयोगात्मकफलस्य । अन्यथा ज्ञानाद्यात्मक कारणाभावेऽपि निरुक्तफलानुभवाभ्युपगमे । तस्येति-निरुक्तफलानुभवस्येत्यर्थः । कथं न तेषु निरुक्तकारणसद्भाव इत्यपेक्षायामाह - चरणकरणयोश्चेति । स्यातां नाम चरण करणे चारित्रात्मके ते एव तेषु किं न भवत इत्यापेक्षायामाह - द्रव्य - पर्यायात्मकेति । अभावात् चारित्रात्मकचरण- करणयोरभावात्, तथाभूतचारित्रं प्रति निरुक्तरुच्यात्मकसम्यग्दर्शनस्य कारणत्वादित्यभिसन्धिः। प्रकारान्तरेणोत्तरार्द्ध विवृणोति - अथवेति । 'निश्चयशुद्धम्' इत्यत्र तृतीयातत्पुरुष एव समास इत्याह- निश्चयेन शुद्धमिति । ते स्वसमयपर समयमुक्तव्यापाराः । न जानन्ति' इत्यत्र हेतुमुपदर्शयति-नहीति - अस्य 'तद्रुचिः' इत्यत्रान्वयः, 'तदुचिः' इत्यस्य ‘यथावस्थिततत्त्वश्रद्धानम्' इत्यर्थः । तदवबोधः यथावस्थितवस्तुतत्त्वावबोधः । बोटिकादेवि दिगम्बरादेरिव । 'सम्भवि' इत्यत्र 'न च' इत्यन्वेति । शङ्कते - अथेति । भण्ण० इति “भण्यते तदेव सत्यं निश्शङ्कं यज्जिनैः प्रज्ञप्तम्” इति संस्कृतम् । wwwww

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442