Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 390
________________ तत्त्वबोधिनी विवृतिविभूषितम् ३२९ कायेषु, श्रद्धा, अविभक्ता भवति-स्याद्वादज्ञानपरिसमाप्याकाङ्क्षापरिपूाऽविश्रान्ता भवति, "एगविह-दुविह-तिविहा" इत्यादिप्ररूपणयैव तद्विश्रान्तिसम्भवादित्ययमर्थोऽनुभवसम्मुखीन इति ध्येयम् ॥ .... . नन्वनेकान्तस्य व्यापकत्वे गच्छति तिष्ठतीत्यत्राप्यनेकान्तः स्यादिति चेत् ? स्यादेवेत्याह “गइपरिणयं गई चेव, केइ णियमेण दक्यिमिच्छंति । .. तं पि य उड्डगईअं, तहा गई अण्णहा अगई ॥". . [सम्मतिकाण्ड० ३, गाथा-२९] . . गतिक्रियापरिणतं द्रव्यं गतिमदेवेति केचिन्मन्यन्ते, तदपि गतिक्रियापरिणतं जीवद्रव्यम् , सर्वतो गमनायोगादूर्ध्वादिप्रतिनियत दिग्गतिकं तैर्वादिभिरभ्युपगन्तव्यम् , एवं च तत् तथाप्रतिनियतदिग्गमनेन गतिमदन्यथा चाऽगतिमदेव, अन्यथापि यदि गतिमत् स्यात् तदाइति फलितार्थकथनम् । 'अविभक्ता भवति' इत्यस्य ‘स्याद्वादज्ञानपरिसमाप्याकालापरिपृत्त्योऽविश्रान्ता भवति' इत्यपि फलितार्थकथनम्, 'आकाङ्क्षाऽपरिपूत्यों इत्यकारप्रश्लेषोऽत्र ज्ञेयः। तर्हि कीदृक्प्ररूपणया श्रद्धा विश्रान्ता भवतीत्यपेक्षायामाह-एग० इति-“एकविध-द्विविध-त्रिविधा" इति संस्कृतम् । तद्विश्रान्तिसम्भवात् स्याद्वादज्ञानपरिसमाप्याकाङ्खापरिपूर्त्या श्रद्धाविश्रान्तिसम्भवात् । उक्तार्थस्यानुभवारूढत्वादक्लिष्टकल्प्यत्वेन युक्तत्वमावेदयति-इत्ययमर्थ इति । गत्यादावप्यनेकान्तस्य सद्भावप्रतिपादिकां गाथां पराशङ्काप्रतिविधानपरतयाऽवतार्य दर्शयति-नन्विति । गइपरिणयं० इति “गतिपरिणतं गतिमदेव केचिनियमेन द्रव्यमिच्छन्ति । तदपि चोर्द्धगतिक तथा गतिमदन्यथाऽगतिमत् ॥" इति संस्कृतम् । विवृणोति-गतिक्रियेति । एवं च गतिक्रियापरिणतजीवद्रव्यस्यो र्धादिप्रतिनियतदिग्गतिकत्वे च । तत् गतिक्रियापरिणतजीवद्रव्यम् । 'तथा' इत्यस्य 'प्रतिनियतदिग्गमनेन' इति विवरणम् , तथा च प्रतिनियतदिग्गमनरूपेण गतिमत्त्वम्, अप्रतिनियतदिग्गमनरूपेणागतिमत्वमित्येवम्भूतधर्मद्वयवत्त्वादनेकान्तत्वमत्रापीत्यर्थः । अन्यथापि गतिमत्त्वं किमिति न स्यादित्यत आह-अन्यथापीति-अप्रतिनियत

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442