Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 388
________________ तत्त्वबोधिनीविवृतिविभूषितम् ૨૨૭ घातेऽपि स्यादधर्मः' इति न भावसम्यग्दृष्टिरसौ, द्रव्यसम्यग्दृष्टिस्तु स्यादेवान्यदर्शनासगृहनिवृत्त्या जिनवचनरुचिस्वभावस्य संक्षेपसम्यक्त्वलक्षणत्वात् , तथा च पारमर्षम्-. "अणभिग्गहियकुदिट्ठी, संखेवरुइ त्ति होइ णायवो। अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥" । [सम्मतिकाण्ड० २८, गाथा-२६] ततोऽपर्यायेष्वपि-न विद्यन्तेऽचिमुर्मुरादयो विवक्षितपर्याया येषु पुद्गलेषु तेष्वपि, अप्यविभक्तश्रद्धानं यत् तदपि भावत एव भवेद् 'अर्चिष्मानयं भावो भूतो भावी वा' इति, नहि भूत-भाविपर्यायोपरक्तवाक्यं द्रव्यतः सत्यं भवति, ‘सविशेषेण' इति न्यायाद् भूत स्यादधर्म इति-अधर्मः स्यादित्येवमवगच्छन् पुरुषः भावसम्यग्दृष्टिर्न भवति, तर्हि स किं मिथ्यादृष्टिः ? नैवमपीत्याह-द्रव्यसम्यग्दृष्टिस्तु स्यादेवेति। तत्र हेतुमुपदर्शयति-अन्येति-मीमांसकादिदर्शनस्य यज्ञे हिंसातोऽधर्मो न भवत्येवंरूपोऽसद्हः कदाग्रहस्तस्य निवृत्त्याऽभावेन, जिनवचनरुचिर्यदेव जिनेनोक्तं तदेव सत्यमित्येवंरूपा या श्रद्धा तत्स्वभावस्य संक्षेपसम्यक्त्वलक्षणत्वादित्यर्थः । उक्तार्थे पारमर्षवचनसंवादमाह-तथा चेति । अणभिगाहिय० इति-"अनभिग्रहिक कुदृष्टिः संक्षेपरुचिरिति भवति ज्ञातव्यः। अविशारदः प्रवचने अनभिग्रहिकश्च शेषेषु"॥ इति संस्कृतम् । सम्मतिगाथोत्तरार्द्ध विवृणोति-तत इति । 'अपर्यायेष्वपि' इत्यस्य विवरणम्-'न विद्यते' इत्यारभ्य 'तेष्वपि' इत्यन्तम् । तदपि अविभकश्रद्धानमपि । भावत एव भवेत् भावतः श्रद्धानमेव तत् । कीदृशं तच्छ्रद्धानमित्यपेक्षायां तदाकारमुल्लिखति-'अर्चिष्मानयं भावो भूतो भावी वा' इतीति 'माऽस्त्विदानीमयं भावोऽर्चिष्मान् किन्तु अतीतकाले आसीदेवार्चिष्मान्, भविष्यत्काले वा भविष्यत्येवायमर्चिष्मान्' इति कृत्वा भावतः सत्योऽयमिति । द्रव्यश्रद्धानमिदं कस्मान्न भवतीत्यपेक्षायामाह-नहीति-अस्य ‘भवति' इत्यनेनान्वयः । हि यतः। सविशेषणेति-'सविशेषणौ विधि-निषेधौ विशेषणबाधे

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442