Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 386
________________ तत्त्वबोधिनीविवृतिविभूषितम् રરક ज्ञातुमशक्यत्वाज्ज्ञप्तिप्रतिबन्धिकैवेयमनवस्थेति कश्चित् , तन्न-इत्थमपि 'गुडशुण्ठी'न्यायेनानवच्छिन्नानेकान्ते दोषाभावात्, सावच्छिन्नानेकान्तवादेऽपि सूक्ष्मावच्छेदकजिज्ञासोपरम एवानेकान्तप्रयोगान्तरपरिश्रमोपरमेऽनवस्थानवकाशादिति दिग् ।। नन्वनेकान्तस्य व्यापकत्वे 'षड् जीव-निकायास्तद्घाते चाधर्म' इत्यत्राप्यनेकान्तः स्यादिति चेत् ? अत्राहुःनेकान्तस्यैकान्तप्रतियोगिकानेकान्तस्यैकान्तत्वानैकान्तत्वधर्मद्वयसमावेशनिबन्धनानेकान्तस्य वा परिज्ञातुमशक्यत्वात् परिच्छिन्नतया ज्ञातुमशक्यत्वाज्ज्ञप्तिप्रतिबन्धिकैव ज्ञप्तिविरोधिन्येव । इयमनवस्था अनेकान्तेऽनेकान्तस्तत्राऽप्यनेकान्त इत्येवंरीत्योपजायमानाऽनवस्था। इति एवम् । कश्चित् अविज्ञाततत्त्वः पण्डितम्मन्यो ब्रूते इत्यर्थः । उक्ताक्षेपं प्रतिक्षिपति-तन्नेति। इत्थमपि अनवस्थानादेकान्तगर्भानेकातस्य परिज्ञातुमशक्यत्वेनानेकान्तानेकान्तानवस्थाया ज्ञप्तिप्रतिबन्धकत्वेऽपि । गुडशुण्ठीन्यायेनेति-"गुडोऽपि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति शुण्ठीनागरभेषजे ॥" [वीतरागस्तोत्रे ] इत्यादिवचनाद् गुडमात्रस्य कफहेतुत्वं शुण्डीमात्रस्य पित्तहेतुत्वमित्येवमेकैकस्य विभिन्नखभावत्वेऽपि गुड-शुण्ठीमिश्रणतो जायमानस्य जात्यन्तरखभावस्य पदार्थस्य कफपित्तविकारोपशमहेतुत्वमिति न्यायेनैकान्तत्वा-ऽनेकान्तत्वोभयसंवलतो जायमानाखण्डस्वरूपस्यानेकान्तस्य वैकान्तनियामकस्वरूपपररूपानवस्थानप्रयुक्तैकान्तानवस्थादोषसम्पर्ककलङ्कितत्वं प्रत्येकपक्षदोषस्य जात्यन्तरात्मके वस्तुन्यसम्भवादित्यर्थः । सखण्डानेकान्तस्वीकारेऽप्येतदपेक्षयैकान्त एतदपेक्षयाऽनेकान्तश्चैवं तत्राप्येकान्ते एतदपेक्षयैकान्त एतदपेक्षयाऽनेकान्तश्च, अनेकान्तेऽप्यमुकापेक्षयैकान्तोऽमुकापेक्षयाऽनेकान्तश्चेत्येवं दिशा जायमानेऽनेकान्तपरम्परास्वरूपे सुदूरं गत्वा यत्रैवैकान्ताऽनेकान्तयोः सूक्ष्मावच्छेदकजिज्ञासा नोपजायते तत्रैवानेकान्तप्रयोगान्तरायासोऽपि न क्रियते इत्येतावतैव तत्प्रवाहपरिश्रान्तौ नानवस्थालतोल्लास इत्याह-सावच्छिन्नानेकान्तवादेऽपीति। : अनेकान्तस्य व्यापकत्वमसहमानः: परः शङ्कते-नन्विति । षडिति-'षड् जीवाः, षड् निकायाः, जीवघाते चाधर्मः' इति खकीयसिद्धान्तेऽपि 'जीवाः षदसंख्यका एकसंख्यकाश्च, निकायाः षट्संख्यका एकसंख्यकाश्च; जीवघातेऽधर्मो

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442