Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 392
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३३१ निषिध्यते, स च गतिविशेषाभावेन नापोद्यते, नहि विशेषाभाव एव सामान्याभाव इति कोऽयमनेकान्त इति चेत् ? न-गतिसामान्यवत्यपि गतिविशेषाभावेन भावाभावोभयरूपतासमावेशादेवानेकान्तसाम्राज्याद् न च विशेषाभावेभ्यः सामान्याभावोऽपि सर्वथातिरिक्तः, किन्तु यावद्विशेषाभावाधिकरणावच्छेदेनातिरिक्तो यत्किञ्चिद्विशेषाभावाधिकरणावच्छेदेन चानतिरिक्त इति गतिसामान्यवति विशेषरूपेण तत्सा सामान्याभावयोः सर्वथा भेदे नोक्तोपपत्तिरतः सामान्याभावस्य सर्वथा विशेषभाव. व्यतिरिक्तत्वं प्रतिक्षिपति-न चेति । तत् किं तयोः सर्वथाऽभेद एवान्यो वाऽत्र कश्चित् प्रकार इति पृच्छति-किन्त्विति। उत्तरयति-यावदिति-यत्राकाशादौ कोऽपि गतिविशेषो न वर्तते, स आकाशादिर्यावद्गतिविशेषाभावाधिकरणम् , तदवच्छेदेन गतिसामान्याभावो गतिविशेषाभावाद् भिन्नः गतिमत्यपि जीवे तिर्यग्गत्यादिविशेषाभावोऽस्तीति यत्किञ्चिद्गतिविशेषाभावाधिकरणं जीवस्तदवच्छेदेन गतिसामान्याभावो गतिविशेषाभावादनतिरिक्त इत्यर्थः। ननु गतिमति गतिविशेषाभावो गतिसामान्याभावस्तु न विद्यत इति कथं गतिसामान्याभावस्य गतिविशेषाभावरूपत्वमत आह-गतिसामान्यवतीति । तत्सामान्याभावोऽपीति गतिसामान्याभावोऽपि, यथा वह्निसामान्यवत्यपि पर्वते महानसीयवह्नित्वेन वह्निर्नास्तीति प्रतीतिबलाद् महानसीयवह्नित्वावच्छिन्नवह्निसामान्यनिष्ठ प्रतियोगिताकाभावोऽभ्युपेयते तथैवोर्ध्वगतिमादाय गतिसामान्यवति जीवे अधोगतित्वादिना गतिर्नास्तीति प्रतीतिबलादधोगतित्वाद्यवच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावो. ऽभ्युपगन्तव्यः, तथा च गतिविशेषाभावाद् गतिसामान्याभावोऽतिरिच्यतां नाम तथापि विशेषरूपेण गतिसामान्याभावमेवोपादाय भावाभावोभयरूपसमावेशनिबन्धनानेकान्तता स्यादेवेत्याशयः । ननु गतिमदेवेत्येकान्तावधारणेन गतिमति गतित्वा. वच्छिन्नप्रतियोगिताकाभाव एव निषिध्यते, तादृशनिषेधश्च विशेषधर्मावच्छिन्नप्रतियोगिताकाभावेन नापोद्यत इति नैकान्तव्याघात इत्याशङ्कते-गतिमतीति-यथा च प्रतीतिबलात् सामान्यनिष्ठप्रतियोगिताया विशेषधर्मोऽवच्छेदकः, तथा तत एव विशेषनिष्ठप्रतियोगितायाः सामान्यधर्मोऽप्यवच्छेदक इति सामान्यधर्मावच्छिन्नविशेषनिष्ठप्रतियोगिताकाभाव उक्तनिषेधापनोदको भवतीत्येवमेकान्तव्याघातः स्यादेवेति

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442