Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 380
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३१९ "ण वि अस्थि अण्णवाओ, ण वि तबाओ जिणोवएसम्मि । तं चेव य मण्णंता, अवमण्णंता ण याणंति ॥" ... [सम्मतिकाण्ड० ३, गाथा-२६] नैवास्त्यन्यवादो गुण-गुणिनो प्यनन्यवादः, जिनोपदेशे-द्वादशाङ्गे प्रवचने, सर्वत्र कथञ्चिदित्याश्रयणात् , 'तदेव, अन्यदेव' इति वा मन्यमाना मननीयमेवावमन्यमाना वादिनोऽभ्युपगतविषयावज्ञाविधायित्वादज्ञा भवन्ति, अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायइति, एकान्तवादिभिः सममनेकान्तवादिनो विवादे तु 'वस्त्वनेकान्तात्मकं न वा?' इत्येव विप्रतिपत्तिरिति किमेते.' इत्यादिस्वरूपा विप्रतिपत्तिरेव न भवतीति कुतस्तस्याः कथाङ्गत्वात् कथात्वोपचार इति बोध्यम् ।। - एकान्तवादिनामविशेषेणाज्ञत्वप्रतिपादिकां सम्मतिगाथां प्रस्तुतार्थसङ्गततयाऽवतार्य दर्शयति-एवंरूपे चेति-अनेकान्तात्मके चेत्यर्थः । अन्यथा रूपम् भिन्नमेव, अभिन्नमेवेत्यायेकान्तात्मकम् । तत् वस्तुवत्त्वम् । ण वि० इति-"नैवास्त्यन्यवादो नापि तद्वादो जिनोपदेशे। तदेव च मन्यमाना अवमन्यमाना न जानन्ति ॥" इति संस्कृतम् । विवृणोति-नेवास्त्यन्यवाद इति । 'नापि तद्वादः' इत्यस्यार्थः'नाप्यनन्यवादः' इति । 'जिनोपदेश' इत्यस्यार्थे-द्वादशाने प्रवचने इति। अन्यवादाऽनन्यवादनिषेधयोर्हेतुमुपदर्शयति-सर्वत्रेति-अन्यत्वा-ऽनन्यत्वादौ सर्वत्र विषय इत्यर्थः । कथञ्चिदित्याश्रयणादिति-कथञ्चिदनन्यत्वं कथञ्चिदन्यत्वं कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वमित्येवमभ्युपगमादित्यर्थः 'तदेव च' इत्यत्र चकाराद् 'अन्यदेव' इत्यस्य समुच्चयमाश्रित्याह-'तदेव अन्यदेव' इति वेति। अभ्युपगतेति-खयमपि यद्वस्त्वभ्युपगच्छन्ति ते, तद् वस्तुतोऽनेकान्तमेव, एकान्तस्य शशशृङ्गकल्पत्वेन तदभ्युपगमासम्भवादित्यभ्युपगतं यदनेकान्तं तद्विषया याऽवज्ञा 'अनेकान्तं वस्तु नास्त्येव' इत्येवंरूपा तद्विधायित्वात् तत्कारित्वादज्ञाः-ज्ञानशून्या भवन्तीत्यर्थः । उक्तावज्ञाकारित्वेऽपि कथमज्ञत्वमित्यपेक्षायामाह-अभ्युपगमनीयेतियन्नित्यमनित्यं वाऽभ्युपगमनीयं वस्तु तस्यास्तित्वं किञ्चिदपेक्षया, तत्प्रतिपादकोपायः स्याद्वाद्युपदर्शितो यस्तन्निमित्तस्य स्वद्रव्यादिरूपापेक्षाज्ञापकनयादिलक्षणस्यापरिज्ञानादित्यर्थः । उपसंहरति-तत इति-सर्वेषामेकान्तवादानां दूषितत्वादित्यर्थः । ननु

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442