Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 377
________________ ३१६ अनेकान्तव्यवस्थाप्रकरणम् । नोऽपि सकलज्ञेयग्राहिणो नैतल्लक्षणं युज्यते, न चापि द्रव्यस्याचेतनस्य गुण-गुणिनोरत्यन्तभेदे ऽसत्त्वापत्तेः, असतोश्च खरविषाणादेवि लक्षणासम्भवादिति द्रव्यार्थान्तरभूतगुणवादिनः । अत्रोत्तरम "दवत्थंतरभूया, मुत्ता-मुत्ता य(व) ते गुणा होज्जा । इत्ता परमाणू णत्थि अमुत्तेसु अग्ग्रहणं ।।” [ सम्मतिकाण्ड० ३, गाथा - २४ ] द्रव्यार्थान्तरभूता गुणा मूर्ता अमूर्त वा भवेयुः, यदि मूर्ताः, न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाद्याधारत्वाद्, अनेकप्रादेशिकस्कन्धवत्, अथामूर्ताः, अग्रहणं तेषाम् अमूर्तस्वादाकाशवत्, ततो तथेत्यर्थः । द्रव्यमात्रस्य नोक्तलक्षणं सम्भवतीत्येवंपरतया व्याख्यान्तरमाहअथ वेति । 'केवलिनोऽपि' इत्यपिना केवलिव्यतिरिक्तस्याशेषस्य चेतनस्य परिग्रहः, सकलज्ञेयग्राहिणः केवलिनोऽपि यदा नोक्तलक्षणायोगः किमु वक्तव्यमकेवलिन इति, अत एवाग्रे ' न चापि द्रव्यस्याचेतनस्य' इत्येवोक्तम्, अपना केवलनोऽग्रहणे तस्यापि पृथगभिधानं कर्तव्यं स्यादिति । अस्मिन् व्याख्याने कथं न द्रव्यमात्रस्योक्तलक्षणयोग इत्यपेक्षायामाह -गुण- गुणिनोरिति । उक्ताशङ्कासमाधानपरां सम्मतिगाथामवतार्य दर्शयति- अत्रोत्तरमिति । दव्वत्थं० इति - " द्रव्यार्थान्तरभूता मूर्ता अमूर्ता वा गुणा भवेयुः । यदि मूर्ताः परमाणवो न सन्ति अमूर्तेष्वग्रहणम् ॥” इति संस्कृतम् । विवृणोति - द्रव्यार्थान्तरभूतेति । यदि मूर्ताः द्रव्यभिन्नतयाऽभ्युपगता गुणा यदि मूर्ता अभ्युपगम्यते, तर्हि तदानीम्, परमाणवो न भवन्ति, अत्र हेतुरनुक्तत्वेन मूलस्य न्यूनता स्यात्, तत्परिहारायाहह - मूर्तिमद्रूपाद्याधारत्वादिति - मूर्तिमांश्चासौ रूपाद्याधारच मूर्तिमद्रूपाधारस्तत्त्वादित्यर्थः । रूपाद्याधारत्वं परमाणूनामपि, न तेषु परमाणुखरूपत्वाभाव इति व्यभिचारःः स्यात् तद्वारणाय मूर्तिमदिति - गुणानां प्रत्यक्षत्वान्यथानुपपत्त्या ' मूर्तानां सतां रूपादिमत्त्वमवश्यमभ्युपगन्तव्यम्, तच्च तादात्म्येन बोध्यमन्यथा द्रव्यार्थान्तरभूतानां तेषां रूपाद्याधारत्वमेव न स्यात्, तत्त्वे वा द्रव्यत्वमेव स्यान्न द्रव्यार्थान्तरत्वमिति । अनेकप्रादेशिक स्कन्धवदिति - यथाऽनेकप्रादेशिकस्कन्धो

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442