Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 351
________________ २९० अनेकान्तव्यवस्थाप्रकरणम् । निष्ठत्वात् । असद्भूतव्यवहार एवोपचारः, तत उपचारानन्तरं य उपचारः क्रियते स संश्लेषरहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहारः, सोऽपि स्वजाति-विजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा-पुत्रदारादि मम, द्वितीयो यथा-वस्त्राऽऽभरणहेमरजतादि मम, तृतीयो यथा-दुर्गदेशराज्यादि मम ।। विजात्यनुपचरितासद्भूतव्यवहारः । 'जीवेऽजीवे च ज्ञेये' इति विशेषणोपादानात् संश्लेषसहितत्वं दर्शितं चैतन्यलक्षणत्वाजीवस्येति ज्ञानस्य स्वजातीयः सः, विजातीयश्चाजीव इति तस्य ज्ञानस्य । उभयनिष्ठत्वाद उभयवृत्तित्वात्, न च ज्ञानं वस्तुगत्योभयनिष्ठम् , जीववृत्त्येव तदिति जीवा-ऽजीवोभयवृत्तित्वस्य ज्ञानगतस्यासद्भूतस्यैव व्यवहार इत्युक्तलक्षणसङ्गतिः। उपचरितासद्भूतव्यवहारं, निरूपयति-असद्भुतव्यवहार एवेति-‘परमाणुबहुप्रदेशी' इति कथनम्, 'मूर्त मतिज्ञानम्' इति कथनम् , 'ज्ञेये जीवेऽजीवे च ज्ञानम्' इति कथनं चासद्भूतव्यवहारतया यदुपदर्शितं तत् सर्वमुपचार एव, तस्मात् कारणादुपचारानन्तरं य उपचारः क्रियते स उपचारः, संश्लेषरहितं यद् वस्तु तत् सम्बन्धविषयः उपचरितासद्भूतव्यवहारो भवतीत्यर्थः । सोऽपि उपचरितासद्भूतव्यवहारोऽपि। आद्यः स्वजातिविषयोपचरितासद्भूतव्यवहारः । पुत्रेति-आत्मा वस्तुगत्या न पुत्र-दारादिस्वरूपः, एवमप्यसद्भूतं पुत्रत्व-दारत्वादिकं तत्रारोप्य 'अयं पुत्रः, इमे दाराः' इत्यादि कथनमुपचार एव, ततश्च तत्रास्मत्सम्बन्धमसन्तमेवारोप्य 'पुत्र-दारादि मम' इत्युपर्यते, सोऽयं संश्लेषरहितपुत्रदारादिवस्तुसम्बन्धविषयः, पुत्र-दारादिश्चास्मच्छब्दार्थस्य स्वजातिरेवेति खजातिविषयोऽपीति भवति स्वजातिविषयोपचरितासद्भूतव्यवहार इत्यर्थः । द्वितीयो विजातिविषयोपचरितासद्भूतव्यवहारः, वस्त्राभरणादिकं च संश्लेषरहितं स्वतोऽनावृतस्यात्मन आच्छादनालङ्कारादिरूपेणोपचरितम् , तथाऽस्मच्छब्दार्थस्य विजातीयं च, तद्वस्तुगत्या नास्त्येवात्मसम्बन्धित्वमथाऽप्युपर्यत इति 'वस्त्रा-ऽऽभरण-हेमरजतादि मम' इति व्यवहारो भवति विजातिविषयोपचरितासद्भूतव्यवहार इत्यर्थः । तृतीयः स्वजाति-विजात्युभयविषयोपचरितासद्भूतव्यवहारः। दुर्गेति-दुर्गादिकं वस्तु संश्लेषरहितं विजातीयं च, राज्यान्तर्गतं पुत्र-दारादिकं मनुष्यादिकं चास्मच्छब्दार्थसजातीयं च, एतत् सर्वमुपचरितं च, न तत्रास्मच्छब्दार्थात्मसम्बन्धो वस्तुतः सन्निति 'दुर्ग-देश-राज्यादि मम' इति व्यवहारो भवति स्वजाति-विजात्युभयविषयो

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442