Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 318
________________ तत्त्वबोधिनीविवृतिविभूषितम् २५७ तदेवं सप्तभङ्गीमङ्गीकुर्वाणमनेकान्तात्मकमेव वस्तु नय-प्रमाणात्मकचैतन्यगोचरः, सदृशा-ऽसदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैव घटादेरनुभूयमानत्वात् , येऽपि सदृशपर्यायास्तेऽपि सद्-द्रव्य-पृथिव्यादिवचनप्रतिपाद्या व्यञ्जनपर्यायाः, न तु ऋजुसूत्राभिमता अर्थपर्यायाः, अन्योऽन्यव्यावृत्तवस्तुस्वलक्षणग्राहकत्वात् तस्य । अनेकान्तात्मकवस्तुनो नय-प्रमाणविषयत्वं प्रतिज्ञातमुपसंहरति-तदेवमिति । सप्तभङ्गीमङ्गीकुर्वाणं स्वप्रतिपादकत्वेन सप्तभङ्गीमभ्युपगच्छत् , सप्तभङ्गीवाक्यप्रतिपाद्यमिति यावत् । सदृशपर्यायेण घटादेः सत्त्वम् , असदृशपर्यायेणासत्त्वमिति कृत्वा कथञ्चित् सन् घटः कथञ्चिदसँश्चेत्येवमेकान्तसदसद्विलक्षणं जात्यन्तरमनेकान्तात्मकं घटादिकं वस्त्वनुभूयमानत्वादभ्युपगन्तव्यमित्याह-सदृशेति-सदृशपर्यायो घटादेः सत्त्व-द्रव्यत्व-पृथ्वीत्वादिय॑ञ्जनपर्यायस्तद्रूपेण सत्त्वम् , तदन्योऽसदृशपर्यायस्तद्रूपेणाऽसत्त्वमिति सदृशाऽसदृशपर्यायाभ्याम्। एकान्तसदसद्विलक्षणस्येतियदि वस्त्वेकान्तेन सद् भवेत् सदृशपयायेणेवासदृशपर्यायेणापि सद् भवेत् , तथा च सर्वरूपेण सत्त्वे सर्वस्य सर्वात्मकत्वं प्रसज्येत, अथ वस्त्वेकान्तेनासद् भवेत् , असदृशपर्यायेणेव सदृशपर्यायेणाप्यसदिति शून्यमेव स्यात् , न चैवम् , अतो नैकान्तेन सन्नप्येकान्तेनासदित्येकान्तसदसद्विलक्षणस्येत्यर्थः, एकान्तसदसदुभयरूपत्वेऽपि प्रत्येकपक्षभाविदोषः स्यादेव, अतः सदसदुभयात्मकत्वेन जात्यन्तरात्मकमनेकान्तात्मकमेव वस्त्वित्याह-जात्यन्तरात्मकस्यैवेति । न चेत्थमननुभूयमानत्वादनुभवबाधतो नाभ्युपगन्तुं शक्यमित्यत आह-अनुभूयमानत्वादिति। सदृशपर्यायः कः ? यद्रूपेण सत्त्वमभिमतमित्यपेक्षायामाह-येऽपि सदृशपर्याया इति- सदृशपर्यायः स एव भवितुमर्हति यद्रूपेणाने कानुगमनम् , इत्थंखभावश्च व्यञ्जनपर्याय एव यः सदादिशब्देन प्रतिपाद्यते। अनेकानुगमाभावाजुसूत्रभिमतोऽर्थपर्यायस्तु न सदृशपाय इत्याह-न त्विति । निषेधे हेतुमाह-अन्योऽन्येति । तस्य अर्थपर्यायस्य, यद्यप्यसाधारणस्वरूपेण सत्त्वं साधारणस्वरूपेणासत्त्वमिलेवं विवक्षयाऽसाधारण-साधारणपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यानुभूयमानत्वादनेकान्तात्मकवस्तुसिद्धिः सम्भवति तथा च ऋजुसूत्राभिमतार्थपर्यायतोऽपि सत्त्वसङ्गमना युज्यते तथापि तां विवक्षामनादृत्यैवैतत्प्रकारेणानेकान्तात्मक अ. व्य. १७

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442