Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
२८६ अनेकान्तव्यवस्थाप्रकरणम् । द्रव्यार्थिकः, यथा-परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति ९, परमस्वभावग्राहको द्रव्यार्थिको दशमः, यथा-ज्ञानस्वरूप आत्मा, अत्रानेकखभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः १० ॥ इति द्रव्यार्थिकभेदाः॥१०॥ ____ अथ पर्यायार्थिकस्य षड् भेदाः, आद्योऽनादिनित्यपर्यायार्थिकः, यथा-पुद्गलपर्यायो मेर्वादिनित्यः १, ११, द्वितीयः सादिनित्यपर्यायार्थिकः, यथा-सिद्धपर्यायो नित्यः २, १२, तृतीयः सत्तागौणत्वेनोत्पाद-व्ययग्राहकोऽनित्यशुद्धपर्यायार्थिकः, यथा-समयं समयं प्रति पर्याया विनाशिनः ३, १३, चतुर्थः सत्तासापेक्षो नित्याशुद्धपर्यायार्थिकः, यथा-एकस्मिन् समये त्रयात्मकः पर्यायः ४, १४, पञ्चमः
सिद्धसादृश्यं तदैवोपपद्येत यदि सतोऽपि तत्र कर्मोपाधेः सम्बन्धो गजनिमीलिकयोपेक्ष्येतेति कर्मोपाधिनिरपेक्षत्वम् , सिद्धपर्यायः सादिरप्युत्तरकालं न विनश्यतीत्येतावतैव नित्यत्वं सिद्धपर्याये तत्सादृश्यतोऽपि तथैव नित्यत्वमायातीति पर्यायविधयैव नित्यत्वं न द्रव्यविधयेति द्रव्यांशाननुप्रवेशाच्छुद्धत्वमिति तथाज्ञानं कर्मोपाधिनिरपेक्षो नित्यशुद्धपर्यायार्थिकनय इत्यर्थः, यद्यपि कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिक इति द्रव्यार्थिकस्य यः प्रथमो मेदस्तस्यापीदमेवोदाहरणमुपदर्शितम्, तथा च यस्यैव शुद्धद्रव्यार्थिकत्वं तस्यैव शुद्धपर्यायार्थिकत्वमित्यसङ्गतमिव प्रतिभाति तथापि पूर्व सिद्धसादृश्यं संसारिण आत्मरूपतयाऽभिमतं न तु पर्यायरूपतयेति शुद्धद्रव्यार्थिकत्वम् , अत्र तु सिद्धस्य यः कर्माष्टकविनिर्मोके सति शुद्धतालक्षणः पर्यायो य उत्तरकालं सर्वदाऽवतिष्ठते तद्रूपस्य संसारदशायामसतोऽपि सद्भावमारोप्य तद्रूपेण सादृश्यमभिमतमिति शुद्धपर्यायार्थिकत्वमिति बोध्यम् । षष्ठमुदाहरति-यथेति-उत्पत्तिरात्मनोऽपूर्वदेहेन्द्रियादिना सह सम्बन्धः, मरणमुपात्तदेहेन्द्रियादिना सह वियोगः, न चैतदुभयं कर्मोपाधिसम्बन्धमन्तरेणेति कर्मोपाधिसापेक्षत्वम्, न ह्यनुगामिद्रव्यखरूपतामन्तरेणैकाधिकरणे उत्पत्ति-मरणे सम्भवत इति नित्यद्रव्यस्वरूपताऽवश्यमेव तद्बलादायातेति नित्यत्वम् , द्रव्यानुप्रवेशाच्चाशुद्धत्वमिति भवति तथाज्ञानं कर्मोपाधिसापेक्षो नित्याशुद्धपर्यायार्थिकनय इत्यर्थः । इत्थं निरूपिता द्रव्यार्थिक-पर्यायार्थिक

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442