Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 320
________________ तत्त्वबोधिनीविवृतिविभूषितम् २५९ सत्त्वमुच्येतेति शङ्कनीयम् , केषुचिदेवार्थधर्मेषु शब्दवाच्यतापरिणत्यभ्युपगमादाख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यानां माधुर्यविशेषादीनां बहूनामर्थधर्माणामनुभवसिद्धत्वात् , अत एव 'प्रज्ञापनीया भावा अप्रज्ञापनीयानामनन्तभाग एव' इति सिद्धान्तव्यवस्था, तेनार्थपर्यायवैलक्षण्यं व्यञ्जनपर्यायेषु नाप्रामाणिकम् , अवश्यं चैतदभ्युपगन्तव्यम् , अन्यथाऽदृष्टदशरथादीनामिदानीन्तनानां तदीयार्थपर्यायापरिज्ञानाद् दशरथादिपदाच्छाब्दबोधो न स्यादित्यधिकमनेकान्तवादप्रवेशे । न चैवम् , कस्यचिद् धर्मस्य शब्देनामिधातुमशक्यस्यापि सद्भावादित्यर्थपर्यायविलक्षणो व्यञ्जनपर्यायोऽवश्यमभ्युपगम्यः, यद्भावाऽभावाभ्यां शब्दवाच्यत्वाऽवाच्यत्वे सङ्गतिमञ्चतः, तथा च व्यञ्जनपर्यायस्यार्थपर्यायविलक्षणस्य सद्भावात् तस्य शब्दवाच्यत्वं समीचीनमेवेति प्रतिक्षेपहेतुमुपदर्शयति-केषुचिदेवेति । ये च शब्दवाच्यतां न प्रतिपद्यन्तेऽर्थधर्मास्ते न सन्त्येवेति वक्तुमशक्यम् , यतो दुग्ध-दधि-गुड-सिता-शर्करामध्वादीनां माधुर्यसामान्यस्याविशेषेऽप्यवान्तरमाधुर्यविशेषा अन्योऽन्यविलक्षणा अनुभूयमाना अपलपितुमशक्या अनुभूयमाना अपि ते नान्योऽन्यव्यावृत्तिप्रतिपत्तये शब्दतोऽभिधातुं शक्या इत्याह-आख्यातुमशक्यत्वेऽपीति । अत एव शब्दाप्रतिपाद्यानां बहूनामर्थधर्माणां सद्भावादेव । तेन उक्तदिशा व्यञ्जनपर्यायसद्भावेन । शब्दवाच्यतया व्यञ्जनपर्यायस्यावश्याभ्युपगन्तव्यत्वं युक्त्यन्तरेण व्यवस्थापयति-अवश्यं चेति । एतत् व्यञ्जनपर्यायस्य शब्दवाच्यत्वम् । अन्यथा व्यञ्जनपर्यायस्य शब्दवाच्यत्वमनभ्युपगम्यार्थपर्यायस्यैव शब्दवाच्यत्वाभ्युपगमे । अदृष्टेति-'दशरथादीनाम्' इत्यादिपदाद् राम-रावण-युधिष्ठिरादीनामन्ययुगीनानां भूतानां भविष्यतां चोपग्रहः, 'इदानीन्तनानाम्' इत्युक्तियुगादिव्यवहितानां न कथञ्चिदपि दर्शनसम्भव इत्यावेदनाय । तदीयेति-दशरथादिसम्बन्धीत्यर्थः, व्यञ्जनपर्यायस्तु सत्त्व-द्रव्यत्वादिनित्यत्वादिदानीमस्त्येवेति तत्परित्यागतस्तद्रूपेण दशरथादीनामपि शाब्दबोधः सम्भवेदेवेति हृदयम् । उक्तार्थविशेषाधिगतये स्वनिर्मितग्रन्थान्तरावलोकनप्रवर्तनायाह-अधिकमिति । 'सदृशाऽसदृशपर्यायाभ्याम्' इति यदुक्तं प्राक् तदुपसंहरति-तत इति-व्यञ्जनपर्यायस्य शब्दवाच्यत्वत इत्यर्थः । उक्तार्थे

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442