Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 307
________________ www २४६ अनेकान्तव्यवस्थाप्रकरणम् । अत्रैवं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः"एवं सत्तवियप्पो, वयणपहो होइ अत्थपज्जाए। वंजणपज्जाए पुण, सवियप्पो णिव्वियप्पो य॥" [सम्मतितर्के का० १, गा० ४१] अस्यार्थः-एवम्-अनन्तरोक्तप्रकारेण, सप्तविकल्पः-सप्तभेदः, वचनपथो भवति, अर्थपर्याये-अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे, सप्ताऽप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यप्रयोक्तव्या, तत्रापि तृतीयभङ्गस्य द्वितीयभङ्गादविशेषान्न प्रयोक्तव्यत्वमिति न्यूनत्वमित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'शङ्कनीयम्' इत्यनेनान्वयः निषेधहेतुमुपदर्शयति-तत्रेति-अवक्तव्यत्वसप्तभङ्गयां वक्तव्यत्वसप्तभङ्गयां चेत्यर्थः, अंशश्चासावंशग्राहकश्चांशांशग्राहकः, एवंभूतो यो धर्मो घटत्व-द्रव्यत्वादिः, तत्र कश्चिद् धर्म एवंभूतो भवति येन धर्मेण वस्तु वचनकोटिमुपगच्छति, कश्चिद् धर्मः पुनस्तदृशो भवति येन धर्मण वस्तु वक्तुं न शक्यते, तादृशधर्मेणाऽवक्तव्यत्वम् , वचनकोट्युपनायकधर्मेण वक्तव्यत्वम्, तयोरेव च प्रथम-तृतीयभङ्गार्थत्वात् , यश्च वस्तुनोंऽशोऽवक्तव्यत्वधर्मों वक्तव्यत्वधर्मश्च, युगपद्विवक्षिताभ्यां ताभ्याम् , एवं वस्तुनो धर्मो यो वक्तव्यत्वधर्मोऽवक्तव्यत्वधर्मश्च, युगपद्विवक्षिताभ्यां ताभ्यामवक्तव्यस्यैव भावप्रधाननिर्देशादवक्तव्यत्वस्यैव तृतीयभङ्गार्थत्वान्नावक्तव्यत्वसप्तभङ्गयां प्रथमभङ्गादविशेषस्तृतीयभङ्गे, नवा वक्तव्यत्वसप्तभङ्गयां द्वितीयभङ्गादविशेषस्तृतीयभङ्गे इत्यर्थः, तथा च व्यवस्थितोऽयमर्थः—सप्तधैव वचनमार्गों वस्तुप्रतिपादने इत्युपसंहरति-इत्थमिति-अस्यार्थकथनमिदम्-उक्तन्यायेनेति ॥ अत्र सप्तभङ्गयाम्। एवम् अन्तरोल्लिख्यमानसम्मतिगाथोक्तप्रकारेण, एवं इति"एवं सप्तविकल्पो वचनपथो भवति अर्थपर्याये व्यञ्जनपर्याये पुनः सविकल्पो निर्विकल्पश्च" ॥ इति संस्कृतम् । अस्यार्थः अनन्तराभिहितसम्मतिवचनस्यार्थः । सङ्ग्रह-व्यवहारर्जुसूत्रलक्षणे सङ्ग्रह-व्यवहारर्जुसूत्रवरूपे, नैगमस्य सिद्धसेनदिवाकरमते सङ्ग्रह-व्यवहारयोरेवान्तर्भावादर्थनयत्वेनानुपादानम् । तत्र सप्तसु भङ्गेषु मध्ये । अस्तित्वस्य सत्तासामान्यलक्षणस्य प्रतिपादकः 'स्यादस्त्येव' इति प्रथमो भङ्गः

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442