Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 312
________________ तत्त्वबोधिनीविवृतिविभूषितम् २५१ अथवाऽन्यथास्याः व्याख्यातात्पर्यम् , अर्थनय एव सप्त भङ्गाः । शब्दादिषु तु त्रिषु नयेषु प्रथम-द्वितीयावेव भङ्गौ । यो ह्यर्थमाश्रित्य वक्तृस्थः सङ्ग्रव्यवहारर्जुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेन तदुत्पत्तरर्थं प्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा, शब्द तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि शब्दश्रवणादुद्गच्छति शब्द-समभिरूढवम्भूताख्यः प्रत्ययस्तस्य शब्दः प्रधानं तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं तदुत्पत्तावनिमित्तत्वात् स शब्दनय उच्यते, तत्र वचनमार्गः सविकल्प-निर्विकल्पतया द्विविधः, सविकल्पं सामान्यम् , निर्विकल्पः पर्यायः, तदभिधानाद् अनभिधेयसंयोगे अवक्तव्यभङ्गात्मकतृतीयभङ्गसंयोगे । पञ्चमेति-प्रथमभङ्गस्य तृतीयभङ्गेन संयोगे पञ्चमो भङ्गः, द्वितीयभङ्गस्य तृतीयभङ्गेन संयोगे षष्ठो भङ्गः, चतुर्थभङ्गस्य तृतीयभङ्गेन संयोगे सप्तमो भङ्गः इति तदात्मका वचनमार्गा भवन्तीत्यर्थः । उक्त सम्मतिगाथाव्याख्यातात्पर्यन्तरमुपदर्शयति-अथवेति । अन्यथा-उक्तप्रकारभिन्नप्रकारेण, अस्याः अनन्तराभिहितसम्मतिगाथायाः। सङ्ग्रहादयस्त्रयोऽर्थवशादुत्पन्नत्वेनार्थप्रधानतया वस्तु व्यवस्थापयतीत्यर्थनयाः, शब्दाद्यास्त्रयस्तु शब्दवशादुत्पत्नत्वेन शब्दप्रधानतयाऽर्थोपसर्जनतया वस्तु व्यवस्थापयतीति शब्दनयाः, तत्र अर्थनयेष्वेव सप्त भङ्गाः, शब्दनयेषु तु प्रथम-द्वितीयावेव भङ्गाविति व्यवस्थापयतिअर्थनय एवेति। कोऽर्थनय इत्यपेक्षायामाह-योहीति। तदुत्पत्तेः सङ्ग्रहादिप्रत्ययोत्पत्तेः। असौ सङ्ग्रहादिप्रत्ययः । स्वप्रभवं सङ्ग्रहादिप्रत्ययजनितम् । तत्प्रयोगस्य शब्दप्रयोगस्य । परार्थत्वात् प्रतिपाद्यश्रोतृपुरुषगतज्ञानजनकत्वात् । शब्दनयः क इत्यपेक्षायामाह-यस्त्विति । उद्गच्छति उत्पद्यते, तस्य शब्द-समभिरूढैवम्भूताख्यप्रत्ययस्य, तद्वशेन शब्दवशेन । तदुत्पत्तेः शब्दसमभिरूढवम्भूताख्यप्रत्ययोत्पत्तेः । अर्थस्योक्तप्रत्ययानिमित्तत्वादुपसर्जनतयैव तत्र भानमित्याह-अर्थस्त्विति । तदुत्पत्तौ, शब्दसमभिरूढैवम्भूताख्यप्रत्ययोत्पत्तौ । तत्र शब्दनये । सामान्यविशेषरूपार्थयोः सविकल्प-निर्विकल्परूपत्वात् तत्प्रतिपादकवचनयोः सविकल्पत्वनिर्विकल्पकत्वे इत्याह-सविकल्पं सामान्यमिति । तदभिधानात्

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442