Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 294
________________ तत्त्वबोधिनीविवृतिविभूषितम् २३३ परेषामपि नाऽनुपपत्तिरिति वाच्यम् , एवं सति सम्पूर्णकोणेऽपि तदभावात्' 'कोणे गोष्ठे गौः' इत्यस्याप्यनुपपत्तेर्नयविशेषकृतसम्बन्धं विना न विचित्रप्रतीत्युपपत्तिरित्यधिकं नयरहस्यादौ ॥ एते च त्रयो भङ्गा गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्तः सकलादेशाः स्यात्कारपदलाञ्छितैतद्वाक्याद् विवक्षा wwwwww सा च 'कोणे गौर्न तु सम्पूर्णगोष्ठे' इति सूक्ष्मेक्षिका पुनः । यावदिति-यत्किञ्चित्कोणावच्छिन्नगोष्ठ एव गौर्विद्यते न तु यावत्कोणावच्छिन्नगोष्ठ इति गोष्ठनिष्ठगवावच्छेदकताया अवच्छेदकत्वं यत्किञ्चित्कोण एव न तु यावत्कोणेष्विति तेषु गवावच्छेदकतावच्छेदकत्वपयोप्यभावमवगाहत इत्यस्यार्थस्य परमतेऽपि घटमानत्वात् परेषामपि पशुपालानुयायिनामपि । 'कोणे गौन तु सम्पूर्ण गोष्ठे' इति सूक्ष्मेक्षिकाया नानुपपत्तिरित्यर्थः । यावत्कोणेषु गोरभावात् सम्पूर्णगोष्ठेषु न गोस्तथा कोणस्य यावदवयवेष्वभावात् सम्पूर्णकोणेऽपि न गौरिति 'कोणे गोष्ठे गौः' इति प्रतीतेरप्यनुपपत्तरिति निषेधहेतुमुपदर्शयति-एवं सतीति । तथा च नयविशेषकृतसम्बन्धाश्रयणेन विचित्रप्रतीत्युपपत्तिर्न तु नयविशेषकृतसम्बन्धं विनेत्याहनयविशेषेति । विशेषजिज्ञासुभिरस्मत्कृतनयरहस्यादिकमवलोकनीयमित्युपदिशतिअधिकं नयरहस्यादाविति ॥ सप्तभङ्गयां केषुचिद् भङ्गेषु सकलादेशत्वं केषुचिद् विकलादेशत्वमिति मतमावेदयितुमाह-एते चेति-अनन्तरोपदर्शिताश्चेत्यर्थः । गुणेति-प्रथमभङ्गो नास्तित्वादिधर्माणां गुणभावेनाऽस्तित्वधर्मस्य प्रधानभावेन प्रतिपादकः, द्वितीयभङ्गोऽस्तित्वादिधर्माणां गुणभावेन नास्तित्वधर्मस्य प्रधानभावेन प्रतिपादकः, तृतीयभङ्गोऽस्तित्वादिधर्माणां गुणभावेनाऽवक्तव्यत्वधर्मस्य प्रधानभावेन प्रतिपादक इत्येवं गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्त आद्यास्त्रयो भङ्गाः सकलादेशा भवन्तीत्यर्थः । स्यात्कारेति-स्यात्कारः 'स्याद्' इत्येवंस्वरूपं यत् पदं तेन लाञ्छितं घटितं यदेतद् वाक्यं 'स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादवक्तव्य एव घटः' इत्येवं वरूपं वाक्यं तस्मात् स्यात्कारपदलाञ्छितैतद्वाक्यात् , अस्य 'प्रतीतेः' इत्यत्रान्वयः, विवक्षाकृतः प्रधानभावो यस्य स विवक्षाकृतप्रधानभावः, यो धर्मों यदा विवक्ष्यते स धर्मस्तदा प्रधानो भवतीति सत्त्वस्य... विवक्षया प्रथमभङ्गः

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442