Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 290
________________ तत्त्वबोधिनीविवृतिविभूषितम् २२९ .. अत्र च निजाऽर्थान्तरपर्यायैरनेकान्तोपजीविनैगम-व्यवहारविशुद्धतारतम्योपदर्शकवसतिदृष्टान्तनीत्या यथाक्रमसङ्कुचद्भिः क्रमेण युगपच्चाऽऽदिष्टैरुपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि भङ्गाः सम्भवन्ति, द्वादशादिषु पञ्चसु च स्वतत्रैकान्ते नयार्पितेस्तैः प्रत्येकं समुदाये च सर्वथाऽवक्तव्यत्वभङ्ग एवोत्तिष्ठते, स च बाधितः सन् कथञ्चिदवक्तव्यत्वे पर्यवस्यति, तस्य कथञ्चित्त्वं च भङ्गद्वयाधीनम्, इत्थं च त्रयाणां भङ्गानां क्रमाभिधानमेव सम्प्रदायसिद्धमिति ॥ व्युत्पत्तिमहिम्ना ततोऽपि स्याद्वादविदुषो भङ्ग सामान्यतस्त्रयो भङ्गा दर्शिताः, तेभ्यश्च यथोक्तषोडशप्रकारा उपलक्षिता भवन्ति तथा दर्शयति--अत्र चेति-उक्तगाथायां चेत्यर्थः । निजा-ऽर्थान्तरपर्यायैः निजपर्याया-ऽर्थान्तरपर्यायैः, 'यथाक्रममसङ्कुचद्भिः' इति 'क्रमेण युगपञ्चाऽऽदिष्टैः' इति च 'निजाऽर्थान्तरपर्यायैः' इत्यस्यैव विशेषणम् । कथं यथाक्रमसङ्कुचद्भिः ? इत्यपेक्षायामुक्तम्-अनेकान्तोपजीवीत्यादि-अनेकान्तोपजीवी यो नैगमव्यवहारयोर्विशुद्धतारतम्योपदर्शको वसतिदृष्टान्तः, तन्नीत्येत्यर्थः । क्रमेणाऽऽदिष्टैराद्यभङ्गद्वयं युगपदादिष्टैस्तृतीयो भङ्ग इति कृत्वा तैः 'त्रयोऽपि भङ्गाः सम्भवन्ति इति । कुत्र ? इत्यपेक्षायामुक्तम्-'उपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु' इति । अवशिष्टेषु द्वादशादिषु पञ्चसु विकल्पेषु तैः किं भवति ? इत्यपेक्षायामाह-द्वादशादिष्विति । तैः निजाऽर्थान्तरपर्यायैः । प्रत्येकं निजपर्याये अर्थान्तरपर्याये युगपद्विवक्षितपर्यायद्वये च । समुदाये च युगपद्विवक्षितोभयपर्याये च, यथा च अवक्तव्यत्वभङ्गस्योत्थानं तथोपदर्शितं प्राक् । स च सर्वथाऽवक्तव्यत्वभङ्गश्च । तस्य अवक्तव्यत्वस्य । एवं सति त्रयोऽपि भङ्गाः क्रमेणैवोपदर्शनीयाः, न त्ववक्तव्यत्वभङ्ग एव प्रथमत एव दर्शनीयः, सम्प्रदायोऽपि च तथैवेत्याह-इत्थं चेति-अवक्तव्यत्वे कथञ्चित् त्वस्य भङ्गद्वयाधीनत्वे चेत्यर्थः, केनापि प्रकारेण वक्तव्यत्वे सत्येवाऽवक्तव्यत्वं कथञ्चित् स्यादित्यतो वक्तव्यत्वोपदर्शकमाद्यभङ्गद्वयममिधातव्यमित्यभिसन्धिः । व्युत्पत्तिमहिम्ना व्युत्पत्तिविशेषसामर्थेन। ततोऽपि केवलैकावक्तव्यत्वभङ्गोद्भावनतोऽपि, यतस्तत्राऽयं निजपर्यायोऽयं च परपर्याय इत्युद्भावनपुरस्सरमेव युगपदा

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442