________________
॥११९॥
चतुर्थमाह
दिव्यौदारिककामाणां कृता-ऽनुमत-कारितैः । ।
मनोवाक्वायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥२३॥ दिवि भवा दिव्याः, ते च वैक्रियशरीरसम्भवाः, औदारिकाश्च औदारिकतिर्यग्-मनुष्यदेहप्रभवाः, ते च ते काम्यन्त इति कामाच, तेषां त्यागोऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तच्चाष्टादशधा-मनसा अब्रह्म न करोमि, न कारयामि, कुर्वन्तमपि परं नानुमन्ये, एवं वचसा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः। एवमौदारिकेपीत्यष्टादश । यदाह
"दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् ।।
औदारिकादपि तथा, तद् ब्रह्माष्टादशविकल्पम् ॥" [प्रशम० १७७] इति । कृता-ऽनुमत-कारितैरिति मनोवाकायत इति च मध्ये कृतत्वात् पूर्वोत्तरेष्वपि महाग्रतेषु सम्बन्धनीयम् ॥२३॥
१ त्रिषष्टि० १ । ३ । ६२२ ॥ २ 'कामानां-मु.। "कवर्गकस्वरवति । २ । ३ । ७६ । पूर्वपदस्थाद् रादेः परस्य कवर्गवति एकस्वरवति चोत्तरपदे सति उत्तरपदान्तस्य नागमस्य स्यादेच नो 'ण' स्यात् ।......स्वर्गकामिणौ...... .........।" -सि० ल॥ ३ मति-मु.॥ ४ संगभवाः-खं.॥ ५ कामास्तेषां-खं.॥ ६ मति-मु.॥
॥११९॥
Jain Education Inti
al
For Private & Personal use only
Alww.jainelibrary.org