Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।।३६९ ।।
Jain Education Inter
ooooooooका
धारानाराचधोरण्या प्रसर्विया निरन्तरम् । अकीलयदिव द्यावापृथिव्यौ नव्यवारिदः । २६ ॥ गृहाद् गृहीत्वा महिषीः सुभगोऽपि बहिर्गतः । विनिवृत्तोऽन्तराऽपश्यद् घोरपूरां महानदीम् ||२७|| तां दृष्ट्वा स मनागु भीतस्तस्थौ किञ्चिद्विचिन्तयन् । नदीं तीर्त्वा परक्षेत्रे महिष्यः प्राविशंस्ततः ||२८|| नमस्कारं पठन् व्योमयानविद्याधिया ततः । उत्पपात कृतोत्फालो मध्येनदि पपात च ॥ २९ ॥ तत्रान्तः कर्दमं मग्नः खरः खदिरकीलकः । कृतान्तदन्तसोदर्यो हृद्यस्य प्रविवेश च ॥३०॥ तथैवावर्त्तयन् पञ्चपरमेष्ठिनमस्त्रियाम् । तदा ममविधा तेन कालधर्ममियाय सः ॥ ३१ ॥ श्रेष्ठिपल्यास्ततः सोऽईद्दास्याः कुक्षाववातरत् । नमस्काररतानां हि सद्गतिर्न विसंवदेत् ||३२|| तस्मिन् गर्भस्थिते मासि तार्त्तीयीके व्यतीयुषि । श्रेष्टिनी श्रेष्ठिने स्वस्य दोहदानित्यचीकथत् ||३३|| गन्धोदकैः स्नपयितुं विलेप्तुं च विलेपनैः । अर्चितुं कुसुमैरिच्छाम्यतां प्रतियातनाः ||३४|| प्रतिलम्भयितुं साधूनिच्छाम्याच्छादनादिभिः । संघं पूजयितुं दातुं दीनेभ्यश्च मतिर्मम ||३५|| इत्यादिदोहदांस्तस्याः श्रुत्वा मुदितमानसः । चिन्तामणिरिव श्रेष्ठिशिरोमणिरपूरयत् ॥ ३६ ॥ ततो नवसु मासेषु दिनेष्वष्टमेषु च । गतेषु श्रेष्टिनी पुत्रमनून शुभलक्षणम् ||३७|| सो महोत्सवं कृत्वा श्रेष्ठी हृष्टः शुभे दिने । सूनोः सुदर्शन इति यथार्थं नाम निर्ममे || ३८ ||
१ प्रतिमा इत्यर्थः ॥
८३
For Private & Personal Use Only
5
10
॥३६९॥
jainelibrary.org

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502