Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 480
________________ ॥४०३।। तपःश्रुतपरीवारां शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुयोगिनोऽपि हि ॥११३॥ योगो रत्नत्रयप्राप्तिः, तद्वन्तो योगिनः, तेऽपि, आसतां पृथग्जनाः, परिग्रह एव ग्रहस्तद्ग्रस्ता: पिशाचकिन इव शमसाम्राज्यसंपदं स्वाधीनामपि त्यजेयुः, शमस्य वितृष्णतायाः साम्राज्यं परमैश्वर्यम् , तद्रूपा सम्पत्, ताम् । साम्राज्यं च नैकाकिनो भवतीत्याह-तपःश्रुतपरीवाराम् , तपश्चारित्रं, श्रुतं सम्यग्ज्ञानं, ते एव परीवारः परिच्छदो यस्यास्तां तथाविधां शमसाम्राज्यसंपदं स्वाधीनां परित्यज्य सुखार्थिनः परिग्रहलवलुब्धा मूलमुच्छेद्य लाभमिच्छन्तीत्यर्थः ॥११३।। इदानीमसन्तोषफलोपदर्शनपूर्वकं सन्तोषफलमाह असन्तोषवतः सौख्यं न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव जायते ॥११॥ सन्तोषरहितस्य तत्कलभूतं सौख्यं न शक्रस्य देवराजस्य, नापि चक्रिणो मनुजराजस्य, यत् सौख्यं सन्तोषवतो जन्मिनो जायते । कस्येवेत्याह-अभयस्य अभयकुमारस्य श्रेणिकराजपुत्रस्य । स हि पित्रोपनीतमपि राज्य परिहत्य शमसाम्राज्यसम्पदं परिगृहीतवानिति । कथानकं च सम्प्रदायगम्यम् । स चायम् १ वितृष्णिताया: खं.॥ 10 ॥४०३|| Jain Education Internet For Private & Personal Use Only Ajainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502