Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
१४१७॥
ततो विषण्णः प्रद्योतो वरान् दातुमशक्नुवन् । विससर्जालिं कृत्वा कुमारं मगधेशितः ॥१६९।। आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्छलादहम् । दिवा रटन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् ॥१७०।। ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे। कथमप्यवतस्थे च कञ्चित् कालं महामतिः ॥१७१।। गृहीत्वा गणिकापुन्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीद् गृहम् ॥१७२॥ प्रयोतेने शिते तेच दारिक पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः॥१७३।। प्रद्योतेन गृहे गत्वा रागिणा प्रेषिता ततः। दतिकाऽनुनयन्त्याभ्यां क्रुद्धाभ्यामपहस्तिता ।।१७४।। द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय सा। ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ॥१७५।। तृतीयेऽप्यति निर्वेदादेत्य ते याचितेऽनया । उचतुश्च सदाचारो भ्राता नावेष रक्षति ॥१७६।। ततो बहिर्गतेऽमुष्मिन् सप्तमेऽति समागते । इहाऽऽयातु नृपश्छन्नस्ततः सङ्गो भविष्यति ॥१७७॥ ततोऽभयेन प्रद्योतसदृगेकः पुमानिजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥१७८।। ईदशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदजने ॥१७९।। तं वैद्यसझनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायाऽऽत इवाभयः ॥१८०॥ नीयमानश्च तेनोचैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं हियेऽनेनेत्युदश्रुवदनोऽग्टत् ॥१८१।। १ घरम् शां. त्रिषष्टि० १० । ११ । २७६ ॥ २ याचिते तया क. ख. छ.॥
॥४७॥
JainEducation Internा
१०५
For Private & Personal use only
Ww.jainelibrary.org

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502