Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 492
________________ ॥४१५॥ लज्जितः कुपितश्वाथ चण्डप्रद्योतभूपतिः । राजहंसमिवाक्षप्सीदभयं काष्ठपञ्जरे ॥१४३।। अग्निभीरू स्थो देवी शिवा नलगिरिः करी । लोहजङ्घो लेखवाहो राज्ये रत्नानि तस्य तु ॥१४४॥ लोहजचं नृपः प्रेषीद् भृगुकच्छे मुहुर्मुहुः । तद्गतागतसंक्लिष्टास्तत्रत्या इत्यमन्त्रयन् ॥१४५॥ आयात्ययं दिनेनापि पञ्चविंशतियोजनीम् । असकृयाहरत्यस्मान् हन्मः संप्रत्यमुं ततः ॥१४६॥ ते विमृश्येत्यदस्तस्य शम्बले विषमोदकान् । तद्भवाशम्बलं चान्यत् समन्तादप्यपाहरन् ॥१४७॥ कश्चित् पन्थानमुल्लङ्घन्थ नदीगेधसि शम्बलम् । तद् भोक्तुमवतस्थे सोऽभूवन्नशकुनान्यथ ॥१४८।। शकुनज्ञस्तु सोऽभुक्त्वोत्थाय दूरं ययौ ततः । क्षुधितो भोक्तुकामस्तद्वारितः शकुनैः पुनः ।।१४९।। दरं गत्वा भोक्तुकामः शकुनैर्वारितः पुनः। ततो गत्वा स तत सर्व प्रद्योतस्य न्यवेदयत ॥१५॥ ततो गज्ञा समाहूय तत् पृष्टः श्रेणिकात्मजः। पाथेयभखामाघ्राय जगाद मतिमानिदम् ॥१५१॥ अस्ति दृष्टिविपोत्राहिद्रव्यसंयोगसम्भवः । असौ दग्धो भवेन्नूनं भवामुद्घाटयेद्यदि ॥१५२॥ ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ॥१५३। विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्यासीभूतोऽस्तु मे वरः ॥१५४॥ अन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिर्धाम्यन् क्षोभयामास नागरान् ॥१५५।। १ इत्यसूत्रयन-खं. क. छ, त्रिषष्टिः १० । ११ । १७४ ॥ २ दग्धो वृक्षो खं. ॥ ३ त्रिषष्टिः १०। ११ । २२८-२३१॥ 10 ॥४१॥ Jain Education Inte For Private & Personal use only Fisww.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502