Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
१४२१॥
ककककककककककककककककककककककक
करणम् । तथाहि-सन्तुष्टा मुनयः शमप्रभावात्तृणाग्रादपि रत्नसमूहान् पातयन्ति, कामितफलदायिनश्च सुरेन्द्ररप्यहमहमिकयोपचर्यन्त इत्यत्र का सन्देहः ।
अत्रान्तर लोकाःधनं धान्यं स्वर्ण-रूप्य-कुप्यानि क्षेत्र-वास्तुनी। द्विपाश्चतुष्पाश्चेति स्युर्नव बाह्याः परिग्रहाः ॥१॥ राग-द्वेषौ कषायाः शुम्हासौ रत्यरती भयम् । जुगुप्सा. वेद-मिथ्यात्वे आन्तराः स्युश्चतुर्दश ॥२॥ बाह्यात् परिग्रहात् प्रायः प्रकुप्यन्त्यान्तरा अपि । प्रावृषो मूषिकालर्कविषजोपद्रवा इव ॥३॥ प्राप्तप्रतिष्ठानपि च वैराग्यादिमहाद्रुमान् । उन्मूलयति निर्मूलं परिग्रहमहाबलः ॥४॥ परिग्रहनिषण्णोऽपि योऽपवर्ग विमार्गति । लोहोडुपनिविष्टोऽसौ पारावारं तितीर्षति ॥५॥ बाह्याः परिग्रहाः पुंसां धर्मस्य ध्वंसहेतवः । तजन्मानोऽपि जायन्ते समिधामिव वह्वयः ॥६॥ बाद्यानपि हि यः सङ्गान्न नियन्त्रयितुं क्षमः। जयेत् क्लीवः कथं सोऽन्तःपरिग्रहचमममम् ।।७।। क्रीडोद्यानमविद्यानां वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावल्लेरेक एव परिग्रहः ॥८॥ अहो आश्चर्यमुन्मुक्तसर्वसङ्गान् मुनीनपि । धनार्थित्वेन शङ्कन्ते धनरक्षापरायणाः ॥९॥
राज-तस्कर दायाद-वति तोयादिभीरुभिः । धनकतानैर्धनिभिर्निशास्वपि न सुप्यते ॥१०॥ १ 'न्तरे शां.॥ २ धनधान्यस्वर्ण क. ख. च.। धान्यं धनं स्वर्ण ड.॥
॥४२१॥
Jain Education Inter
१०६
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 496 497 498 499 500 501 502