Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 497
________________ स्वोपज्ञवृत्तिविभूषितं योगशाखम् ॥४२०॥ द्वितीयः प्रकाश: श्लोकः ११२ ॥४२०॥ नाम्नाऽहमभयस्तात ! सभयोऽस्मि भवाद् भृशम् । भुवनाभयदं वीरं तच्छ्यामि समादिश ।।२०८॥ तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः ।।२०९।। निर्बन्धाद् ग्राह्यमाणोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः ।।२१०॥ राज्यं तृणमिव त्यक्त्वा सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् ॥२११॥ संतोषमेवमभयः सुखदं दधानः सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोषमेवमपरोऽप्यवलम्बमानस्तान्युत्तरोत्तरसुखानि नरो लभेत ॥२१२।। [इति श्री अभयराजर्षिकथानकम् ॥ ] ॥११४॥ प्रकृतं सन्तोषमेव स्तौति सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् ॥११५।। निधयो महापद्मादयः, सन्निधौ सन्निहिताः, कामगवी कामधेनुः, सा अनुगच्छतीत्येवंशीला अनुगामिनी, अमराः सुराः, किङ्करा इवाचरन्ति किङ्करायन्ते । तस्येति योगः। यस्य किम् ? यस्य पुंसः सन्तोषो भूषणमल १ त्रिपष्टिः १० । १६ । ३२५ ॥ २ त्रिषष्टि० १० । १२ । ९९-१०३ ॥ Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502