Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
||४२३||
Jain Education Inter
2920202 22020806
नाशायै ददे स्वाम्यं तेनाssसं दास्यमात्मनः । आशा दासीकृता येन तस्य स्वाम्यं जगत्त्रये ||२५|| नाशा नैसर्गिकी पुंसि या जीर्यति न जीर्यति । उत्पात एव कोऽप्येषा तस्यां सत्यां कुतः सुखम् ||२६|| बलयो बलयाः पुंसां पलितानि स्रजः कृताः । किमन्यन्मण्डनं कृत्वा कृतार्थाऽऽशा भविष्यति ||२७|| प्राप्तेभ्योऽप्यतिरिच्यन्ते तेऽर्थास्त्यक्ता य आशया । क्रोडीकरोति यानाशा ते तु स्वप्नेऽपि दुर्लभाः ||२८|| यानर्थान् बहुभिर्यत्नैरिच्छेत् साधयितुं नरः । अयत्नसिद्धा एवैते कृते ह्याशा निमीलने ||२९|| पुण्योदयोsस्ति चेत् पुंसां व्यथैवाशा पिशाचिका । अथ पुण्योदयो नास्ति व्यथैवाशा पिशाचिका ||३०|| अधीती पण्डितः प्राज्ञः पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां नैराश्यमुररीकृतम् ||३१|| सुखं सन्तोष पीयूषजुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीनामसन्तोषवतां कुतः ||३२|| सन्तोषवर्मणि व्यर्था आशानाराचपङ्क्तयः । ताः कथं प्रतिरोद्धव्या इति मा स्माकुलो भव ||३३|| वाक्येनैकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः । आशा पिशाची शान्ता च प्राप्तं च परमं पदम् ||३४||
तत् सन्त्यजाऽऽशावैवश्यं मितीकृतपरिग्रहः । भजस्त्र द्रव्यसाधुत्वं यतिधर्मानुरक्तधीः ||३५|| मिथ्यादृगुभ्यो विशिष्यन्ते सम्यग्दर्शननो जनाः । तेभ्योऽपि देशविरता मितारम्भपरिग्रहाः || ३६ || यामन्यतीर्थिका यान्ति गर्ति तीव्रतपोजुषः । उपासकाः सोमिलवत् तां विराद्धव्रता अपि ॥ ३७ ॥
१ आशा शां. ॥ २ सा खं. ॥
३ बहुभिः क्लेश० ख च ॥
४ भजस्व भावसाधुत्वं च ड ॥
For Private & Personal Use Only
10
॥४२३॥
www.jainelibrary.org

Page Navigation
1 ... 498 499 500 501 502