________________
स्वोपज्ञवृत्तिविभूषितं योगशाखम् ॥४२०॥
द्वितीयः प्रकाश: श्लोकः ११२ ॥४२०॥
नाम्नाऽहमभयस्तात ! सभयोऽस्मि भवाद् भृशम् । भुवनाभयदं वीरं तच्छ्यामि समादिश ।।२०८॥ तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः ।।२०९।। निर्बन्धाद् ग्राह्यमाणोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः ।।२१०॥ राज्यं तृणमिव त्यक्त्वा सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् ॥२११॥ संतोषमेवमभयः सुखदं दधानः सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोषमेवमपरोऽप्यवलम्बमानस्तान्युत्तरोत्तरसुखानि नरो लभेत ॥२१२।।
[इति श्री अभयराजर्षिकथानकम् ॥ ] ॥११४॥ प्रकृतं सन्तोषमेव स्तौति
सन्निधौ निधयस्तस्य कामगव्यनुगामिनी ।
अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् ॥११५।। निधयो महापद्मादयः, सन्निधौ सन्निहिताः, कामगवी कामधेनुः, सा अनुगच्छतीत्येवंशीला अनुगामिनी, अमराः सुराः, किङ्करा इवाचरन्ति किङ्करायन्ते । तस्येति योगः। यस्य किम् ? यस्य पुंसः सन्तोषो भूषणमल
१ त्रिपष्टिः १० । १६ । ३२५ ॥ २ त्रिषष्टि० १० । १२ । ९९-१०३ ॥
Jain Education Inter
For Private & Personal Use Only
ww.jainelibrary.org