________________
॥४१९॥
यदि वो नेदृशः कश्चिद्रत्नकोटीत्रयं ततः । जला-ऽग्नि-स्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥१९५।। सम्यगीदृगयं साधुः पात्रं दानस्य युज्यते । मुधाऽसौ जहसेऽस्मारिति तैर्जगदेऽभयः ॥१९६।। अस्य भोपहासादि न कर्तव्यमतः परम । आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥१९॥ एवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत् पितुः ॥१९८॥ वर्तमानः स्वयं धर्म स प्रजा अप्यवर्त्तयत् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ॥१९९।। राजा चक्रे जजागार यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽसावप्रमद्वरमानसः ॥२०॥ बहिरङ्गान् यथाऽजेषीद् दुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा स लोकद्वयसाधकः ॥२०१।। तमूचे श्रेणिकोऽन्येधुर्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ॥२०२।। पित्रावाभङ्ग-संसारभीररित्यभयोऽब्रवीत् । यदादिशत तत् साधु प्रतीक्षवं क्षणं परम् ॥२०॥ इतश्च भगवान् वीरः प्रव्रज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ॥२०४॥ ततो गत्वाऽभयो नत्वा पप्रच्छ चरमं जिनम् । राजषिः कोऽन्तिमोऽथाख्यत्तत्रैवोदायनं प्रभुः ॥२०५।। गत्वोचे श्रेणिकं सोऽस्मि राजा वेन ऋषिस्तदा । श्रीवीरोऽन्तिमराजर्षि शशंसोदायनं यतः ॥२०६।।
श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नो छेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः ॥२०७॥ १ पात्रदानस्य खं, त्रिषष्टि०१० । ११ । ३०३॥ २ राजचक्रे त्रिषष्टि० १० १११। ३०७ ॥
॥४१९॥
For Private & Personal Use Only
H
Jain Education inte
w.jainelibrary.org