Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञ.
विभूषितं योगशाबम
द्वितीयः प्रकाश: श्लोकः ११४ ॥४१८॥
11४१८॥
ककककककककककककककककककककककककका
सप्तमेऽह्नि नृपोऽप्येकस्तत्र प्रच्छन्न आययौ । कामान्धः सिन्धुर इव बद्धश्चाभयपूरुषः ॥१८२।। नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्यकेन समं जड़े पुरान्तः स रटन् दिवा ॥१८३॥ क्रोशे क्रोशे पुरा मुक्त रथैरथ सुवाजिभिः । पुरे राजगृहेऽनैपीत् प्रद्योतमभयोऽभयः ॥१८४ । ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः। दधावे खड्गमाकृष्य तं प्रति श्रेणिको नृपः ॥१८५।। ततोऽभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा ॥१८६।। अन्यदा गणभृद्देवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत् कोऽपि विरक्तः काष्ठभारिकः ॥१८७॥ विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्यतागीतापि पदे पदे ।।१८८।। नावज्ञा सोढुमीशेत्र विहरामि तदन्यतः । इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं ततः ॥१८९।। सुधर्मस्वामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्छयताभयः पृच्छन् ज्ञापितस्तच्च कारणम् ।।१९०॥ दिनमेकं प्रतीक्षघमृद्धर्व यत् प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ॥१९१।। सोऽथ राजकुलात् कृष्ट्वा रत्नकोटिनयीं बहिः । दास्याम्येतामेत लोकाः पटहेनेत्यघोषयत् ॥१९२।। ततश्चैयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जला-ऽग्नि-स्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥१९३।। लोकोत्तरमिदं लोकः स्वामिन् ! किं कर्तुमीश्वरः १ । इति तेष्वाभाषमाणेष्वभयोऽपीत्यभाषत ॥१९४।। 'मीशो मु, त्रिषष्टिः १० । ११ । २९६ ॥ २त्रयं खं. ॥ ३ ततश्चेयु मु. त्रिषष्टिः १० । ११ । ३०० ॥
Jain Education Inter
w.jainelibrary.org
For Private & Personal Use Only
10

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502