Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 491
________________ स्वोपज्ञवृत्ति विभूषित योगशाखम् द्वितीयः प्रकाश: श्लोकः११४ ॥४१॥ ॥४१४॥ अस्त्विदानीमियं भूयः यो निमन्व्येति चिन्तयन् । तां विसृज्याभयश्चैत्यं वन्दित्वा स्वगृहं ययौ ॥१३०॥ तां निमन्त्र्याभयः प्रातर्गृहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् ॥१३१॥ निमन्त्रितस्तयाऽन्येद्यमितीभ्याभयोऽप्यगात् । साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः? ॥१३२॥ तया च विविधर्भोज्यैरभयोऽकारि भोजनम् । चन्द्रहाससुरामिश्रपानकानि च पायितः ॥१३३॥ भुक्तोत्थितश्च तत्कालं सुष्वाप श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खलु ॥१३४॥ तं रथेन स्थाने स्थाने स्थापितैश्चापरै रथैः । अवन्तीं प्रापयामास दुर्लक्षच्छद्मसम सा ॥१३५॥ ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थानेऽन्वेषयन्तस्तत्राप्येयुर्गवेषकाः ॥१३६।। किमिहाभय आयात इत्युक्ता तैरुवाच सा । इहाभयः समायातः परं यातस्तदैव हि ॥१३७॥ वचनप्रत्ययात् तस्या अन्यत्रयुगवेषकाः। स्थाने स्थाने स्थापिताश्वः साऽप्यवन्ती समाययो ।।१३८॥ सा प्रचण्डाऽभयं चण्डप्रद्योतस्यार्पयत्ततः। अभयानयनोपायस्वरूपं च व्यजिज्ञपत् ॥१३९।। तां प्रद्योतोऽप्युवाचैवं न साधु विहितं त्वया । यदमुं धर्मविश्रब्धं त्वं धर्मच्छमनाऽऽनयः ॥१४०॥ कथासप्ततिसंशंसी मार्जायेव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥१४१॥ अभयोऽप्यब्रवीदेवं त्वमेव मतिमानसि । यस्यैवंविधया बुद्धया राजधर्मः प्रवर्द्धते ॥१४२॥ १ दुर्लक्ष्य मु. त्रिषष्टिः १० । ११ । १६४ ॥ २ पापीयुमु.। प्रोपेयु त्रिषष्टि०१०। ११ । १६५ ।। Jain Education in For Private & Personal Use Only Alww.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502