Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
१४.९॥
ततोऽभयकुमारस्तामूमिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेन निजघानोपरि स्थितः ॥६५॥ प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूलकम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥६६।। नन्दाया नन्दनः सद्यः कारयित्वाऽथ सारणिम् । वारिणाऽपूरयत् कूपं विस्मयेन च तं जनम् ॥६७॥ तद् गोमयं श्रेणिकमः करेण तरदाददे। धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ॥६८॥ तस्मिन् स्वरूप चारक्षर्विज्ञप्ते जातविस्मयः । नृपोऽभयकुमारं द्रागाजुहावात्मसन्निधौ ॥६९॥ अभयं श्रेणिकः पुत्रप्रतिपच्याऽथ सस्वजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः ||७०|| कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । वेणातटादागतोऽहमिति चाभिदधेऽभयः ॥७१॥ राजाऽपृच्छद् भद्रमुख ! कि भद्र इति विश्रुतः । श्रेष्ठी तत्रास्ति तस्यापि नन्दानाम्नी च नन्दना ॥७२॥ अस्त्येव सम्यगित्युक्ते तेन भूयोऽपि भूपतिः । ऊचे नन्दोदरिण्यासीत् किमपत्यमजायत ? ॥७३॥ अथाख्यत् कान्तदन्तांशुश्रेणिः श्रेणिकमरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ।।७४॥ किरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा। ऊचेऽभयः स एवाहं स्वामिन्नस्मीति चिन्त्यताम् ।।७५।। परिष्वज्याङ्कमारोप्य समाघाय च मूर्द्धनि । स्नेहात् स्नपयितुमिव सिषेच नयनाम्बुभिः ॥७६।। कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाअलिपुटोऽभयः ॥७७॥ १ कुंमारोऽयमूर्मिकां शां. खं.॥ २ तरसाददे मु.॥ ३ नन्दनी शां. खं.॥
0
॥४०९॥
Jain Education in
103
Por Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502